This page has not been fully proofread.

पीयूषलहरीव्याख्यासहिता ।
 
शरदिति । भो सुरधुनि, ये जनाः त्वां ध्यायन्ति चिन्त-
यन्ति तेषां जनानां परिभवः अनादरः । 'अनादरः परिभवः
परीभावस्तिरस्क्रिये' त्यमरः । न उद्यति उत्पन्नो न भवती-
त्यर्थः । यद्यपि 'अय गता' विति धातोरात्मनेपदं तथापि
'इटकिटकटी' त्यत्र प्रश्लिष्टस्य ईधातोरुत्पूर्वस्येदं रूपं बोध्यम् ।
अतएव 'उदयति विततोर्ध्वरश्मिरज्जा'विति माघप्रयोगः
 
संगच्छत इति दिक् । कथंभूतां त्वाम् । शरच्चन्द्रश्वेताम् शरदि
शरत्काले । 'अथ शरतु स्त्रिया' मित्यमरः । तत्र यचन्द्रः तद्वत्
श्वेतां शुभ्राम् । परमगौरामित्यर्थः । शरदित्यनेन परमनैर्मल्य
सूचितम् । पुनः कथंभूताम् । शशिशकलश्वेतालमुकुटाम् ।
अलति दंश कुर्वन् गच्छतीत्यलः सर्पः श्वेतश्चासौ अलश्च
श्वेतालः शुभ्रसर्पः शशिनचन्द्रस्य शकलः खण्डः शशिशकल:
शशिशकलश्च श्वेतालश्च शशिशकलश्वेतालौ तौ मुकुटे यस्याः
सा ताम् । यद्वा श्वेताश्च ते अलाश्च भूषणानि च श्वेतालाः ।
यद्वा श्वेतस्य रजतस्य अलाः भूषणानि 'दुर्वर्ण रजतं रूप्यं
खर्जूरं श्वेतमित्यपी'त्यमरः । गमनभूषणार्थकादलधातोः पचा-
द्यच् । शेषसमासः पूर्ववत् । यद्वा शशिशकलश्वेतालः तादृशो
मुकुटो यस्याः सा ताम् । यद्वा शशिशकलं श्वेताल इव शुभ्रभू-
षणमिवेति व्याघ्रादित्वादुपमितसमासः । शशिशकलश्वेतालः
तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलश्वेतः श्वेतगुणः
तं आसमन्तात् लातीति शशिशकलश्वेतालः तादृशो मुकुटो
यस्याः सा ताम् । यन्मुकुटे चन्द्रस्य प्रभा प्रसृता भवतीति
भावः । 'ला दाने' इति धातोः 'आतचोपसर्गे' इति की गुणे
शुक्लादयः पुंसी'
त्यमरः । यद्वा शशिशकलं च श्वेतश्च शशिशक-
Bhandarkar Oriental
Research Institute