This page has been fully proofread once and needs a second look.

ऋकारस्य रकारः । द्रढिमा चासौ रमणीयश्च तम् । अति-
शयेन सुन्दरं चेत्यर्थः । एतादृशं परिकरं कटिं द्राक् शीघ्रं
बधान । 'बध बन्धने' । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः ।
प्रगाढगात्रैकबन्धे विवेकारम्भयोरपी'ति विश्वः । ममोद्धाराय
शीघ्रं कटिबन्धं कुर्विति भावः । पुनस्त्वं किरीटे मुकुटे । '--अथ
मुकुटं किरीटं पुंनपुंसक'मित्यमरः । बालेन्दुं बालश्चासौ इन्दुश्च
तं कलात्मकं चन्द्रं पन्नगगणैः पनं पतितं गच्छन्ति ते पन्नगाः
सर्पाः तेषां गणाः समूहाः तैः नियमय नियमनं कुरु । तत्रैव
स्थापयेत्यर्थः । अन्यथा ममागमनसमये पतिष्यतीति भावः ।
लोकेऽपि कश्चन मनुष्यः कस्यचिव्द्याघ्रादिपीडितस्य यदा मोचनं
करोति तदा कटिबन्धशिरोभूषणादिकं दृढं करोतीति प्रसिद्धम् ।
यद्वा किरीटे पन्नगगणैः बालेन्दुं नियमयेति योजना । पुनः
त्वं इतरजनसाधारणतया इतरः अन्यः नीचो वा । 'इतरस्त्वन्य-
नीचयो'रित्यमरः । स चासौ लोकश्च जनश्च तेन साधारणः
तुल्यः तस्य भावः साधारणता तया हेलां अर्थात् मम अनादरं
न कुर्याः । मा कुर्वित्यर्थः । परमत्वद्भक्ते मयि अन्यजनतुल्यो-
यमिति बुद्धिं मा कुर्विति भावः । अत्र लोकोक्त्यलंकारः। तदुक्तं
कुवलयानन्दे 'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते' इति ॥ ४७ ॥
 
इदानीं गङ्गारूपं स्तौति--
 
शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां
करैः कुम्भाम्भोजे वरभयनिरासौ च दुधतीम् ।
सुधाधाराकाराभरणवसनां शुभ्रमकर-
स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभव: