This page has been fully proofread once and needs a second look.

६२
 
गङ्गालहरी ।
 

 
ऋकारस्य रकारः । द्रढिमा चासौ रमणीयश्च तम् । अति-

शयेन सुन्दरं चेत्यर्थः । एतादृशं परिकरं कटिं द्राक् शीघ्रं

बधान । 'बध बन्धने' । 'भवेत्परिकरो त्राते पर्यङ्कपरिवारयोः ।

प्रगाढगात्रैकबन्धे विवेकारम्भयोरपी'ति विश्वः । ममोद्धाराय

शीघ्रं कटिबन्धं कुर्विति भावः । पुनस्त्वं किरीटे मुकुटे । 'अथ

मुकुटं किरीटं पुंनपुंसक' मित्यमरः । बालेन्दुं बालबासौ इन्दुध

तं कलात्मकं चन्द्रं पन्नगगणैः पनं पतितं गच्छन्ति ते पन्नगाः

सर्पाः तेषां गणाः समूहाः तैः नियमय नियमनं कुरु । तत्रैव

स्थापयेत्यर्थः । अन्यथा ममागमनसमये पतिष्यतीति भावः ।

लोकेऽपि कश्चन मनुष्यः कस्यचिव्याघ्रादिपीडितस्य यदा मोचनं

करोति तदा कटिबन्धशिरोभूषणादिकं दृढं करोतीति प्रसिद्धम् ।

यद्वा किरीटे पन्नगगणैः बालेन्दुं नियमयेति योजना । पुनः

त्वं इतरजनसाधारणतया इतरः अन्यः नीचो वा । 'इतरस्त्वन्य-

नीचयो' रित्यमरः । स चासौ लोकश्च जनश्च तेन साधारणः

तुल्यः तस्य भावः साधारणता तया हेलां अर्थात् मम अनादरं

न कुर्याः । मा कुर्वित्यर्थः । परमत्वद्भक्ते मयि अन्यजनतुल्यो

यमिति बुद्धिं मा कुर्विति भावः । अत्र लोकोक्त्यलंकारः। तदुक्तं

कुवलयानन्दे 'लोकग्रवादानुकृतिर्लोकोक्तिरिति भण्यते' इति ४७

इदानीं गङ्गारूपं स्तौति
 

 
शरच्चन्द्र श्वेतां शशिशकल श्वेतालमुकुटां

करैः कुम्भाम्भोजे वरभयनिरासौ च दुधतीम् ।

सुधाधाराकाराभरणवसनां शुभ्रमकर-

स्थितां त्वां ये ध्यायन्त्युदयति न तेषां
 
FOUNDED
1917
 
परिभवः
 
Research Institute
 
व;