This page has been fully proofread once and needs a second look.

एतेन श्रमसंत्रस्तस्य निद्रास्थानयोग्यत्वमावेदितम् । एतादृशे
उत्सङ्गे अङ्के चिरात् बहुकालं उन्निद्रं उद्गता निद्रा यस्य सः
एतादृशं मां शायय स्वापय । निद्रां कारयेत्यर्थः । 'शीङ् स्वप्ने'
इति धातोर्णिजन्तात् लोण्मध्यमपुरुषैकवचनम् । सिप् 'अतो हे:’
इति हेर्लुक् । निद्रायाः सुखविशेषरूपफलस्य प्रयोज्यगामित्वात्
प्रयोजकरूपकर्तृगामित्वाभावेन 'णिचश्चे'ति आत्मनेपदं न ।
चिरात् शाययेति वा योजना । लोकेऽपि माता पुत्रं अङ्के स्वाप-
यतीति प्रसिद्धमेव । एतदर्थमेव मातरिति संबोधनम् ॥ ४६ ॥

इदानीं ममोद्धाराय कटिबन्धादिकं कुर्वित्याह--
 
बधान द्रागेव द्रढिमरमणीयं परिकरं
किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।
न कुर्यास्त्वं हेलामितरजनसाधारणतया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७
 
बधानेति । भो सुरधुनि, जगन्नाथस्य एतन्नाम्नः अयं
समुद्धारसमयः । सम्यगुद्धरणं समुद्धारः तस्य समयः कालः ।
अस्तीति शेषः । यद्यपि 'आत्मनाम गुरोर्नाम नामातिकृपणस्य
च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयो’रिति निषे-
धात् स्वनामग्रहणं अश्रेयस्करं भवति तथापि अत्यन्तातुरतया
निषेधोल्लङ्घनम् । अतएव 'हापितः क्वासि हे सुभ्रु बह्वेव विल-
लाप सः’ इति भट्टिप्रयोगः संगच्छत इति दिक् । ननु अस्तु
तवोद्धारसमयः मया किं कर्तव्यमित्याकाङ्क्षायामाह--बधा-
नेति । त्वं द्रढिमरमणीयं अतिशयेन दृढः इति द्रढिमा । 'वर्ण-
दृढादिभ्यः ष्यञ्चे'ति चादिमनिच् । 'र ऋतो हलादेर्लघो’रिति