This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 
६१
 

 
एतेन श्रमसंत्रस्तस्य निद्रास्थानयोग्यत्वमावेदितम् । एतादृशे

उत्सङ्गे अङ्के चिरात् बहुकालं उन्निद्रं उगता निद्रा यस्य सः

एतादृशं मां शायय स्वापय । निद्रां कारयेत्यर्थः । 'शीङ् खप्ने'

इति धातोर्णिजन्तात् लोण्मध्यमपुरुषैकवचनम् । सिप् 'अतो हे '

इति हेर्लुक् । निद्रायाः सुख विशेषरूपफलस्य प्रयोज्यगामित्वात्

प्रयोजकरूपकर्तृगामित्वाभावेन 'णिचश्चे'ति आत्मनेपदं न ।

चिरात् शाययेति वा योजना । लोकेऽपि माता पुत्रं अङ्के स्वाप-
यतीति प्रसिद्धमेव । एतदर्थमेव मातरिति संबोधनम् ॥ ४६ ॥

इदानीं ममोद्वाराय कटिबन्धादिकं कुर्वित्याह-

 
बधान द्रागेव द्रढिमरमणीयं परिकरं
 

किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।

न कुर्यास्त्वं हेलामितरजनसाधारणतया

जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥४७॥

बधानेति । भो सुरधुनि, जगन्नाथस्य एतन्नाम्नः अयं

समुद्धारसमयः । सम्यगुद्धरणं समुद्धारः तस्य समयः कालः ।

अस्तीति शेषः । यद्यपि 'आत्मनाम गुरोर्नाम नामातिकृपणस्य

च । श्रेयस्कामो न गृह्णीयाज्येष्ठापत्यकलत्रयो रिति निषे-

धात् स्वनामग्रहणं अश्रेयस्करं भवति तथापि अत्यन्तातुरतया

निषेधोल्लङ्घनम् । अतएव 'हापितः क्कासि हे सुभ्रु बहेव विल-

लाप सः" इति भट्टिप्रयोगः संगच्छत इति दिक् । ननु अस्तु

तवोद्धारसमयः मया किं कर्तव्यमित्याकाङ्क्षायामाह बधा-
नेति । त्वं द्रढिमरमणीयं अतिशयेन दृढः इति द्रढिमा । 'वर्ण-

दृढादिभ्यः प्यञ्चे'ति चादिमनिच् । 'र ऋतो हलादेर्लयो रिति
 
1917
 
श्रीत
Bhandarkar Oriental
Research Institute