2023-03-26 11:20:55 by Rupa jha
This page has been fully proofread once and needs a second look.
चिरकालमनिद्रं मां त्वं स्वापयेति प्रार्थयते
पयः पीत्वा मातस्तव सपदि यातः सहचरै-
र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।
इदानीमुत्सङ्गे मृदुपवनसंचारशिशिरे
चिरादुन्निद्रं मां सहृदये शायय चिरम् ४६
पय इति । भो मातः, तब पयः पीत्वा विमूढैः मूर्खा:
विमूढाः तैः । विशेषतश्च ईषदपि हिताहितज्ञानशून्यत्वम् ।
तादृशैः सहचरैः सह साकं चरन्ति भक्षन्ति, गच्छन्ति वा ते
सहचराः मित्राणि तैः सह सपदि शीघ्रं संरन्तुं विहर्तुं यातः
गतः । 'गत्यर्थाकर्मके' त्यादिना याधातोः कर्तरि क्तः । एता-
दृशः अहं क्वचिदपि कस्मिंश्चित् स्थलेऽपि कस्मिंश्चित् विहारेऽपि
वा विश्रान्
योजना । यद्वा तव पयः यदि पीत्वेति संबन्धः । एतेन तृष्णा-
वशात् शीघ्रं तव जलपानमात्रं कृतं न स्नानादिकम् । तेन
स्वस्मिन्नपराधबाहुल्यमस्तीति सूचितम् । भो सदयहृदये दयया
सहितं सदयं तादृशं हृदयं यस्याः सा तत्संबोधनम् । एतादृशि
हे मातः, इदानीं संप्रति 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथे'-
त्यमरः । मृदुपवनसंचारशिशिरे मृदुः कोमलः । अल्प इत्यर्थः ।
एतेन वात्यायाः दुःखप्रदत्वान्निरासः सूचितः । मृदु
पवनश्च तस्य संचारः गमनं संबन्धो वा तेन शिशिरः शीतलः ।