This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
इदानीं तब जलं पीत्वा मृमूढमित्रैः सह विहर्तुं गतोऽहं कचि-
क्वचिदपि सुखं न लब्धवान्, इदानीं मृदुपवनसंन्धशीतलखाङ्के

चिरकालमनिद्रं मां त्वं स्वापयेति प्रार्थयते -

पयः पीत्वा मातस्तव सपदि यातः सहचरै-

र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।

इदानीमुत्सङ्गे मृदुपवनसंचारशिशिरे

चिरादुन्निद्रं मां सहृदये शायय चिरम् ४६

पय इति । भो मातः, तब पयः पीत्वा विमूढैः मूर्खा:

विमूढाः तैः । विशेषतश्च ईदपि हिताहितज्ञानशून्यत्वम् ।

तादृशैः सहचरैः सह साकं चरन्ति भक्षन्ति, गच्छन्ति वा ते

सहचराः मित्राणि तैः सह सपदि शीघ्रं संरन्तुं विहर्तुं यातः

गतः । 'गत्यर्थाकर्मके' त्यादिना याधातोः कर्तरि क्तः । एता-

दृशः अहं क्वचिदपि कसिंस्मिंश्चित् स्थलेऽपि कसिंस्मिंश्चित् विहारेऽपि

वा विश्रान्ति विश्रामं न अगमम् । सपदि यात इति वा

योजना । यद्वा तव पयः यदि पीत्वेति संबन्धः । एतेन तृष्णा-

वशात् शीघ्रं तव जलपानमात्रं कृतं न स्नानादिकम् । तेन

स्वस्मिन्नपराधबाहुल्यमस्तीति सूचितम् । भो सदयहृदये दयया

सहितं सदयं तादृशं हृदयं यस्याः सा तत्संबोधनम् । एतादृशि

हे मातः, इदानीं संप्रति 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथे'-

त्यमरः । मृदुपवनसंचारशिशिरे मृदुः कोमलः । अल्प इत्यर्थः ।

एतेन वात्यायाः दुःखप्रदत्वान्निरासः सूचितः । मृदुवासौ

पवनश्च तस्य संचारः गमनं संबन्धो वा तेन शिशिरः शीतलः ।
 
॥ सजा
 
Bhandarkar Oriental
Research Institute
 
६०