This page has not been fully proofread.

गङ्गालहरी ।
 
इदानीं तब जलं पीत्वा मृढमित्रैः सह विहर्तुं गतोऽहं कचि-
दपि सुखं न लब्धवान्, इदानीं मृदुपवनसंवन्धशीतलखाङ्के
चिरकालमनिद्रं मां त्वं स्वापयेति प्रार्थयते -
पयः पीत्वा मातस्तव सपदि यातः सहचरै-
र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।
इदानीमुत्सङ्गे मृदुपवनसंचारशिशिरे
चिरादुन्निद्रं मां सहृदये शायय चिरम् ४६
पय इति । भो मातः, तब पयः पीत्वा विमूढैः मूर्खा:
विमूढाः तैः । विशेषतश्च ईपदपि हिताहितज्ञानशून्यत्वम् ।
तादृशैः सहचरैः सह साकं चरन्ति भक्षन्ति, गच्छन्ति वा ते
सहचराः मित्राणि तैः सह सपदि शीघ्रं संरन्तुं विहर्तुं यातः
गतः । 'गत्यर्थाकर्मके' त्यादिना याधातोः कर्तरि क्तः । एता-
दृशः अहं क्वचिदपि कसिंचित् स्थलेऽपि कसिंचित् विहारेऽपि
वा विश्रान्ति विश्रामं न अगमम् । सपदि यात इति वा
योजना । यद्वा तव पयः यदि पीत्वेति संबन्धः । एतेन तृष्णा-
वशात् शीघ्रं तव जलपानमात्रं कृतं न स्नानादिकम् । तेन
स्वस्मिन्नपराधबाहुल्यमस्तीति सूचितम् । भो सदयहृदये दयया
सहितं सदयं तादृशं हृदयं यस्याः सा तत्संबोधनम् । एतादृशि
हे मातः, इदानीं संप्रति 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथे'-
त्यमरः । मृदुपवनसंचारशिशिरे मृदुः कोमलः । अल्प इत्यर्थः ।
एतेन वात्यायाः दुःखप्रदत्वान्निरासः सूचितः । मृदुवासौ
पवनश्च तस्य संचारः गमनं संबन्धो वा तेन शिशिरः शीतलः ।
 
॥ सजा
 
Bhandarkar Oriental
Research Institute
 
६०