This page has been fully proofread once and needs a second look.

वेद्यि । तृणजालेनेति 'तुल्यार्थै'रित्यादिना तृतीया । कलौ
नामोच्चारणस्यैव सारत्वात्तदेव करोमीति भावः । सदुक्तम् ’हरे-
र्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव
नास्त्येव गतिरन्यथे'ति दिक् । अत्र नामशब्दो नामोच्चारण-
परो बोद्धव्यः ॥ ४४ ॥
 
इदानीं जन्मावधि निरन्तरं पुण्यवतां साधूनां श्रेयः कर्तुं
बहवो देवाः कुशलाः सन्ति, निराश्रयाणां पापिनां तु त्वां
विनान्यं हितकरं जगति न पश्यामीत्याह--
 
अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।
निरस्तालम्बानामकृतसुकृतानां तु भवतीं
विनामुष्मिँल्लोके न परमवलोके हितकरम् ॥ ४५ ॥
 
अविश्रान्तमिति । भो त्रिपथगे जननि, अविश्रान्तं निर-
न्तरं जन्मावधि जन्मप्रभृति जन्मपर्यन्तं वा सुकृतजन्मार्जनकृतां
सुकृतेन पुण्येन जन्मार्जनं जन्मसंग्रहस्तत् कुर्वन्ति तेषां तादृशानां
सतां साधूनां श्रेयः कर्तुं कल्याणं संपादयितुं कति कतिसंख्याका
विबुधाः देवाः कृतिनः कुशलाः न सन्ति । अपितु बहवः
सन्तीत्यर्थः । निरस्तालम्बानां निरस्तः गतः आलम्बः आश्रयो
येषां तेषां अकृतसुकृतानां तु न कृतं सुकृतं पुण्यं यैः तेषाम् ।
पापिनामित्यर्थः । तेषां तु अमुष्मिन् लोके भवतीं विना त्वामृते
परं द्वितीयं हितकरं अभिमतसंपादकं नावलोके न पश्यामि ।
एतत्सर्वं चित्ते निधाय त्वामहं शरणं गत इति भावः ॥ ४५ ॥