This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
५९
 

 
वेभिद्यि । तृणजालेनेति 'तुल्यार्थै' रित्यादिना तृतीया । कलौ

नामोच्चारणस्यैव सारत्वात्तदेव करोमीति भावः । दुक्तम् 'हरे-
र्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव

नास्त्येव गतिरन्यथे' ति दिक् । अत्र नामशब्दो नामोच्चारण-

परो बोद्धव्यः ॥ ४४ ॥
 

 
इदानीं जन्मावधि निरन्तरं पुण्यवतां साधूनां श्रेयः कर्तुं

बहवो देवाः कुशलाः सन्ति, निराश्रयाणां पापिनां तु त्वां

विनान्यं हितकरं जगति न पश्यांमीत्याह-

अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां

सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।

निरस्तालम्बानामकृतसुकृतानां तु भवतीं

विनामुष्मिँल्लोके न परमवलोके हितकरम् ४५

अविश्रान्तमिति । भो त्रिपथगे जननि, अविश्रान्तं निर
न्तरं जन्मावधि जन्मप्रभृति जन्मपर्यन्तं वा सुकृतजन्मार्जनकृतां

सुकृतेन पुण्येन जन्मार्जनं जन्मसंग्रहस्तत् कुर्वन्ति तेषां तादृशानां

सतां साधूनां श्रेयः कर्तुं कल्याणं संपादयितुं कति कतिसंख्याका

विबुधाः देवाः कृतिनः कुशलाः न सन्ति । अपितु बहवः

सन्तीत्यर्थः । निरस्तालम्बानां निरस्तः गतः आलम्बः आश्रयो

येषां तेषां अकृतसुकृतानां तु न कृतं सुकृतं पुण्यं यैः तेषाम् ।

पापिनामित्यर्थः । तेषां तु अमुष्मिन् लोके भवतीं विना त्वामृते

परं द्वितीयं हितकरं अभिमतसंपादकं नावलोके न पश्यामि ।

एतत्सर्वं चित्ते निधाय त्वामहं शरणं गत इति भावः ॥ ४५ ॥
 
FOUNDE
1917
 
धीत
Bhandarkar Oriental
Research Institute
 
-