This page has not been fully proofread.

५८
 
गङ्गालहरी ।
 

 
वान् विष्ण्वादीन् यजन्ति पूजयन्ति । तदपरे तेभ्यः देवपूज-
केभ्यः अपरे अन्ये । पञ्चमीति योगविभागात्समासः । यद्वा ते
देवपूजका: अपरे येभ्यः ते इति पञ्चम्यर्थे बहुव्रीहिः । देवपूज-
केभ्य उर्वरिता इत्यर्थः । वितानव्यासक्ताः उल्लोचेषु, यज्ञेषु
वा व्यासक्ताः विशेषेण आसक्ताः । तत्परा इत्यर्थः । सन्तीति
शेषः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । लोके 'चांदवा' इति
प्रसिद्धिः । 'ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः ।
कतिपयेऽन्ये लोकाः यमनियमरक्ताः यमनियमयो रक्ताः अनु-
रक्ताः । सन्तीति शेषः । तान्कुर्वन्तीत्यर्थः । तत्करणकाठिन्या-
त्कतिपयपदोपादानम् । यमनियमग्रहणमष्टानामप्युपलक्षणम् ।
ते च 'यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयः'
तत्र अहिंसादिपरिग्रहो यमः । शौचादिसंपादनं नियमः । पद्म-
काद्यासनम् । रेचकादिप्राणायामः । इन्द्रियाणां स्वस्वविषयेभ्यः
प्रत्याहरणं प्रत्याहारः । तत्रैव विच्छिद्य अन्तरिन्द्रिय प्रवाहो
ध्यानम् । चित्तवृत्तिनिरोधः समाधिरिति दिक। भो त्रिपथगे
जननि, त्रीन्पथो गच्छतीति त्रिपथगा, यद्वा त्रयाणां पथां स
माहारस्त्रिपथम् । 'पथः संख्याव्ययादे' रिति नपुंसकत्वम् । तेन
गच्छतीति त्रिपथगा । गमेर्ड: । तत्संबोधनम् । अहं तु जगन्ना-
थस्तु त्वन्नामस्मरणभृतकामः सन् तव नाम त्वन्नाम । 'प्रत्ययोत्तर-
पदयोश्चे' ति त्वादेशः । त्वन्नाममरणं चिन्तनं तेन भृताः संपा-
दिताः तादृशाः कामाः मनोरथाः येन सः एतादृशः सन्
जगज्जालं जगतः जालं समूहः जगज्जालम् । 'जालं समूह
आनायः' इत्यमरः । तृणजालेन कक्षसंघेन सदृशं तुल्यं
 
जाने
 
Research Institute
 
"तजो