This page has been fully proofread once and needs a second look.

सुप्रसिद्धानि । उच्चार्यमाणेषु च तेषु प्रतिपद्यमेकैकं सोपानमारुह्यान्ति-
मपद्यावसाने कूलंकषात्वमुपागता भागीरथी तया यवन्या सह
प्रण्डितराजं स्वपात्रान्तर्विलयं निन्ये । तदैनमवलोक्य महानुभाव-
प्रभावं काशीस्थास्तदानींतनाः पण्डिता अत्यन्तं व्यस्मयन्तेति ।
 
जगन्नाथपण्डितरायप्रणीतग्रन्थास्तु --(१) अमृतलहरी, (२)
आसफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्,
(५) जगदाभरणम्, (६) गङ्गालहरी, (७) प्राणाभरणम्, (८)
भामिनीविलासः, (९) मनोरमाकुचमर्दनम्, (१०) यमुनावर्णनम्,
(११) लक्ष्मीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधरश्चेत्येते
दरीदृश्यन्ते । एतदन्येऽनुपलब्धाः स्युर्वा न वेति न विद्मो वयम् ।
 
एतादृशानेकनिबन्धरत्नप्रणेतृ-परमपूज्य श्रीमत्पण्डितजगन्नाथराय-
संबन्धिकिंवदन्त्यनुगुणं व्रीडावहं यवनीपरिणयादि यद्यप्यदर्यस्मा-
भिस्तथापि तादृशकालुष्यनिबर्हणाय विद्वद्वर--अप्पाशास्त्री--राशिवडे--
करमहाशयैः संस्कृतचन्द्रिकायां सुनिपुणं निर्णोतं तत्तथ्यातथ्य-
विवेचनं यथावदत्र प्रदर्श्यते--
 
स्वभावत एव किल क्रोधवन्तो यवनाः स्वाङ्गनासु परस्य प्रेममयं
पूज्यभावसंभवमपि नयनपातं न सहन्ते किंपुनर्विधर्मीयस्य कामा-
विष्टमनस आत्मनः समक्षमेव निजकन्याविषयिणीं प्रार्थनाम् ।
यद्यपि भूयांसो विद्वांसो वैदुष्यस्याननुरूपमहंकारमवाप्नुवते तथापि
नहि काममात्रासत्तया धर्ममुल्लङ्घयितुमीहन्त इत्यपि नैव विस्मर-
णीयम् । क्षुद्रतमोऽपि यवनीं यदि विधर्मीयैः कृतया कान्तागतया
कथयापि कोपस्य परां कोटिमारोहेत्तदा कथं वा निखिलभारतवर्ष-
भूपालसमभ्यर्चितशासनो दिल्लीश्वरः शहाजहानः पण्डितेनापि जग-
न्नाथेनात्मनः समक्षमभ्यर्थितां कन्यां तस्मै प्रदाय यवनधर्ममवधी-