This page has been fully proofread once and needs a second look.


 
प्रस्तावना ।
 

 
सुप्रसिद्धानि । उच्चार्यमाणेषु च तेषु प्रतिपद्यमेकैकं सोपानमारुह्यान्ति-

मपद्यावसाने कूलंकषात्वमुपागता भागीरथी तया यवन्या सह

प्रण्डितराजं स्वपात्रान्तर्विलयं निन्ये । तदैनमवलोक्य महानुभाव-

प्रभावं काशीस्थास्तदानींतनाः पण्डिता अत्यन्तं व्यस्मयन्तेति ।
 

 
जगन्नाथपण्डितरायप्रणीतग्रन्थास्तु - (१) अमृतलहरी, (२)

आसफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्,

(५) जगदाभरणम्, (६) गङ्गालहरी, (७) प्राणाभरणम्, (८)

भामिनीविलासः, (९) मनोरमाकुचमर्दनम्, (१०) यमुनावर्णनम्,

(११) लक्ष्मीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधरश्चेत्येते

दुरीदृश्यन्ते । एतदन्येऽनुपलब्धाः स्युर्वा न वेति न विद्मो वयम् ।
 

 
एतादृशाने कनिबन्धरत्नप्रणेतृ-परमपूज्य श्रीमत्पण्डितजगन्नाथराय-

संबन्धिकिंवदन्त्यनुगुणं व्रीडावहं यवनीपरिणयादि यद्यप्यदर्यस्मा-

भिस्तथापि तादृशकालुष्यनिबर्हणाय विद्वद्वर-अप्पाशास्त्री-राशिवडे-
करमहाशयैः संस्कृतचन्द्रिकायां सुनिपुणं निर्णोतं तत्तथ्यातथ्य-

विवेचनं यथावदत्र प्रदर्श्यते-

स्वभावत एव किल क्रोधवन्तो यवनाः स्वाङ्गनासु परस्य प्रेममयं

पूज्यभावसंभवमपि नयनपातं न सहन्ते किंपुनर्विधर्मीयस्य कामा-

विष्टमनस आत्मनः समक्षमेव निजकन्याविषयिणीं प्रार्थनाम् ।

यद्यपि भूयांसो विद्वांसो वैदुष्यस्थाननुरूपमहंकारमवाप्नुवते तथापि

महि काममात्रासक्त्या धर्ममुल्लङ्घयितुमीहन्त इत्यपि नैव विस्मर-

णीयम् । क्षुद्रतमोऽपि यवनीं यदि विधर्मीयैः कृतया कान्तागतया

कथयापि कोपस्य परां कोटिमारोहेत्तदा कथं वा निखिलभारतवर्ष-

पालसमभ्यर्चितशासनो दिल्लीश्वरः शहाजहानः पण्डितेनापि जगे-

ज्थेनात्मनः समक्षमभ्यर्थितां कन्यां तस्मै प्रदाय यवनधर्ममवधी-
NDE
 
Research Institute