This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 

 
संबद्धं एतादृशं मनो येषां ते तान् एतादृशान् नरान्मनुष्यान्

विकचकुसुमत्रातमिषतः विकचानि प्रफुल्लानि यानि । कुसुमानि

पुष्पाणि तेषां व्रातः समूहः तस्य तदेव वा मिषं छलं तस्मात्

सोल्लासं सहर्षं यथास्यात्तथा हसन्तः उपहासं कुर्वन्तः एतेषां

दुष्टस्वीय स्वीयदेशरचितभक्त्या तत्रैव मरणेन दुर्गतिर्भविष्यति

अस्माकं तु सदैव गङ्गातीरवासित्वादुभयगतिर्भविष्यतीति तान्

उपहसन्तीत्युत्प्रेक्षा । पुनः कथंभृताः । नित्यमलिनाः नित्यं

मलिनाः मालिन्ययुक्ताः तान् । जन्मतः श्यामानित्यर्थः । एता-

दृशान् अलिन: भ्रमरान् सौरभ्यै: निजकुसुमसौगन्ध्यैः संततं

निरन्तरं यथा स्यात्तथा पुनानाः पवित्रीकुर्वाणाः एवंच ताह-

शान् ये पुंनन्ति ते स्वसखं मामपि पवित्रं करिष्यन्तीति भावः ।

सौरभ्यैः नित्यमलिनान् पुनाना इति वा योजना । 'मधुलिण्म-

धुपालिनः' इत्यमरः ॥ ४३ ॥
 

 
इदानीं केचन स्वेष्टफलावातये यमनियमादियोगं कुर्वन्ति,

अहं तु त्वन्नामस्मरणेन प्राप्तकामः सन् जगज्जालं तृणतुल्यं मन्य
 

इत्याह-
यजन्त्येके
देवान्कठिनतरसेवांस्तदपरे
 

वितानव्यासक्ता यमनियमरक्ताः कतिपये ।

अहं तु त्वन्नामस्मरणभृतका
मस्त्रिपथगे

जगज्जालं जाने जननि तृणजालेन सदृशम् ॥

यजन्तीति । भो त्रिपथगे, एके लोकाः कठिनतरसेवान्

अतिशयेन कठिना कठिनतरा सेवा येषां तान्
 
INSTITUTE
 
एताद्दशान्दे-
 
गङ्गा, ५
 
इत्याह-
यजन्त्येके
 
-
 
तेजस्विनावधीतम
 
Bhandarkar Oriental
Research Institute