This page has been fully proofread once and needs a second look.

मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केवल’मिति
ब्रह्माण्डपुराणवचनं बोध्यम् । तिलककरणप्रकारोप्युक्तस्तत्रैव 'वा-
महस्ते जलं कृत्वा सावित्र्या चाभिमन्त्रितम् । तद्विष्णोरिति मन्त्रेण
मर्दयेन्मृत्तिकां ततः । अतोदेवेति सूक्तेन तिलकं कारयेत्सदे'ति ।
इदं तिलककरणं प्रातःस्नानोत्तरं बोध्यम् । पुनः सा का ।
या विधिलिखितदुर्वर्णसरणिं विधिना ब्रह्मणा लिखिताः ते च
ते दुर्वर्णा: दुष्टाक्षराणि अयं दरिद्रो भविता मृतभार्यश्चेत्यादयः
तेषां सरणिः तां सद्यः लापनाव्यवहितोत्तरकाले एव विलुम्प-
न्ती विशेषेण लुम्पन्ती प्रोच्छन्ती । एवंच विधिलिखितमपि
अलीकं कुर्वन्त्या मम शोकहरणे सामर्थ्यमस्तीति भावः ॥ ४२ ॥
 
इदानीं मूढान्नरानुपहसन्तः स्ववासिभ्रमराणां मालिन्यदोषं
दूरीकुर्वाणाश्च गङ्गातीरतरवः मम सखायः सन्त्वित्याह--
 
नरान्मूढांस्तत्तज्जनपदसमासक्तमनसो
हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः ।
पुनानाः सौरभ्यैः सततमलिनो नित्यमलिना-
न्सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३ ॥
 
नरानिति । त्रिदशतटिनीतीरतरवः त्रिदशतटिन्याः ग-
ङ्गायाः तीरं तत्र तस्य वा तरवः वृक्षाः नः अस्माकं भक्तजनानां
सखायः मित्राणि सन्तु भवन्तु । 'अथ मित्रं सखा सुहृदि’-
त्यमरः । कथंभूताः त्रिदशतटिनीतीरतरवः । मूढान्मूर्खान्
अतएव तत्तज्जपदसमासक्तमनसः ते च ते जनपदाश्च तत्तज्जन-
पदाः स्वस्वदेशाः । 'नीवृज्जनपदो देश'इत्यमरः । तेषु समासक्तं