This page has been fully proofread once and needs a second look.

प्रपद्यन्त इत्यर्थः । तत्रायं उपाधिः कारणं स्फुरति वर्तते । किं
तदित्याकाङ्क्षायामाह--यत् यस्मात् कारणात् अभीष्टं वाञ्छितं
वितरसि ददासि । तेभ्य इति शेषः । मम तु पुनः जगन्नाथ-
स्यात्मा स्वभावादेव निसर्गादेव त्वयि भवत्याममितं अपरिमितं
अनुरागं प्रीतिं विधृतवान् धारयामास इति तुभ्यं भवत्यै शपे
शपथं करोमि । 'श्लाघह्नुङ्स्थाशपा'मिति संप्रदानत्वम् ॥ ४१ ॥
 
इदानीं त्वदीया मृत्तिका मदीयं समस्तं शोकं दूरीकरोत्विति
प्रार्थयते--
 
ललाटे या लोकैरिह खलु सलीलं तिलकिता
तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।
विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं
त्वदीया [^१]सन्मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥
 
ललाट इति । पूर्वश्लोकात्संबोधनपदं आवर्तनीयम् । भो
सुरधुनि, त्वदीया त्वत्संबन्धिनी सा मृत्स्ना प्रशस्ता मृत् मृत्स्ना
'सस्नौ प्रशंसाया'मिति मृत्शब्दात्स्नुप्रत्ययः । 'मृन्मृत्तिका
प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिके’त्यमरः । मम जगन्नाथ-
कवेः कृत्स्नामपि संपूर्णामपि शुचं शोकं हरतु । ननु मृत्ति-
कायाः शोकहरणे कथं सामर्थ्यमित्याकाङ्क्षायामाह। सा का ।
या मृत्स्ना इहलोके ललाटे भालदेशे सलीलं यथास्यात्तथा
तिलकिता सती पुण्ड्रीकृता सती तमो हन्तुं तरुणतरमार्तण्डतु-
लनां तरुणतरः माध्यह्निको यो मार्तण्डः सूर्यः तस्य तुलनां
साम्यं धत्ते बिभर्ति । अत्र प्रमाणं तु--'गङ्गातीरसमुद्भूतां मृदं
------------------------------
[^१] सा मृत्स्ना इति पाठः ।