This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
प्रपद्यन्त इत्यर्थः । तत्रायं उपाधिः कारणं स्फुरति वर्तते । किं

तदित्याकाङ्क्षायामाह-यत् यस्मात् कारणात् अभीष्टं वाञ्छितं

वितरसि ददासि । तेभ्य इति शेषः । मम तु पुनः जगन्नाथ-

स्यात्मा स्वभावादेव निसर्गादेव त्वयि भवत्याममितं अपरिमितं

अनुरागं प्रीतिं विधृतवान् धारयामास इति तुभ्यं भवत्यै शपे

शपथं करोमि । 'श्लापहघह्लुङस्थाशपा'मिति संप्रदानत्वम् ॥ ४१ ॥

इदानीं त्वदीया मृत्तिका मदीयं समस्तं शोकं दूरीकरोत्विति

प्रार्थयते
-
 
-
 

ललाटे या लोकैरिह खलु सलीलं तिलकिता

तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।

विलम्पन्ती सद्यो विधिलिखित दुर्वर्णसरणिं

त्वदीया सन्मृत्वास्न्ना मम हरतु कृत्स्नामपि शुचम्

ललाट इति । पूर्व श्लोकात्संबोधनपदं आवर्तनीयम् । भो

सुरधुनि, त्वदीया त्वत्संबन्धिनी सा मृत्स्ना प्रशस्ता मृत् मृत्स्ना

'सस्त्रीरौ प्रशंसाया 'मिति मृत्शब्दात्स्नुप्रत्ययः । 'मृन्मृत्तिका
 

प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिके त्यमरः । मम जगन्नाथ-

कवेः कृत्स्नामपि संपूर्णामपि शुचं शोकं हरतु । ननु मृत्ति-

कायाः शोकहरणे कथं सामर्थ्यमित्याकाङ्क्षायामाह। सा का ।
या मृत्स्खा

या मृत्स्न्ना
इहलोके ललाटे भालदेशे सलीलं यथास्यात्तथा

तिलकिता सती पुण्ड्रीकृता सती तमो हन्तुं तरुणतरमार्तण्डतु-

लनां तरुणतरः माध्याहियह्रिको यो मार्तण्डः सूर्यः तस्य तुलनां

साम्यं धत्ते विबिभर्ति । अत्र प्रमाणं तु - 'गङ्गातीरसमुद्धतां मृदं
 
ANSTITU
 

 
१ सा मृत्स्ना इति पाठः ।
 
FOUNDED
 
1917
 
॥ तेजस्वि
 
नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute