This page has been fully proofread once and needs a second look.

प्रीत्या मिलन्ती संयुज्यमाना अर्धाङ्गे वामभागे युवतिः पार्वती
यस्य सः तस्य पुरारे: शिवस्य मृदुलतरसीमन्तसरणौ अतिश-
येन मृदुलः कोमलः मृदुलतरः तादृशो यः सीमन्तः केशवेशः ।
'सीमन्तः केशवेशे'इति शकन्ध्वादिगणसूत्रेण पररूपम् । तस्य
सरणिः तत्र प्रेड्खन्त्यः गच्छन्त्यः । उपरिष्टादधोभागे आगता
इत्यर्थः । पुनः कथंभूताः । अतएव भवान्या पार्वत्या कर्तृभूतया
कोमलरुचा कोमला रुक् कान्तिर्यस्य तेन । एतेन पार्वतीसौ-
न्दर्यमुक्तम् । अतएव शिवेन प्रीतिवशात् लहरिकर्षणेन निवा-
रिता एतादृशेन कारेण सापत्न्यस्फुरितनयनं यथास्यात्तथा
समान पतिर्यस्याः सा सपत्नी तस्या भावः सापत्न्यं तेन
स्फुरितेन कोपेन चञ्चले नयने यसिन्कर्मणि यथा भवति तथा
आक्षिप्ताः आकर्षिताः । क्वचित्तु भवान्या इति षष्ठ्यन्तः पाठः ।
तत्र भवान्याः करेण कर्तृभूतेनेत्यर्थः ॥ ४० ॥
 
इदानीं बहवो लोकाः त्वामायान्ति तत्र तेषामभीष्टं करो-
षीति कारणं वर्तते । अहं तु स्वभावादेव त्वय्यनुरक्त इति
तुभ्यं शप इत्याह--
 
प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती-
मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।
शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि
स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१ ॥
 
प्रपद्यन्त इति । भो मातः सुरधुनि, कति लोकाः अत्र-
भवतीं पूज्यां भवतीं त्वां न प्रपद्यन्ते नायान्ति, अपितु बहवः