This page has been fully proofread once and needs a second look.

५४
 

 
गङ्गालहरी
 

 
श्रीत्या मिलन्ती संयुज्यमाना अर्धाङ्गे वामभागे युवतिः पार्वती

यस्य सः तस्य पुरारे: शिवस्य मृदुलतरसीमन्तसरणौ अतिश-

येन मृदुलः कोमलः मृदुलतरः तादृशो यः सीमन्तः केशवेशः ।

'सीमन्तः केशवेशे' इति शकन्ध्वादिगणसूत्रेण पररूपम् । तस्य

सरणिः तत्र प्रेइन्त्यः गच्छन्त्यः । उपरिष्टादधोभागे आगता

इत्यर्थः । पुनः कथंभूताः । अतएव भवान्या पार्वत्या कर्तृभूतया

कोमलरुचा कोमला रुक् कान्तिर्यस्य तेन । एतेन पार्वतीसौ-

न्दर्यमुक्तम् । अतएव शिवेन प्रीतिवशात् लहरिकर्षणेन निवा-

रिता एतादृशेन कारेण सापत्न्यस्फुरितनयनं यथास्यात्तथा

समान पतिर्यस्याः सा सपत्नी तस्या भावः सापत्न्यं तेन

स्फुरितेन कोपेन चञ्चले नयने यसिन्कर्मणि यथा भवति तथा

आक्षिप्ताः आकर्षिताः । क्वचित्तु भवान्या इति षष्ठ्यन्तः पाठः ।

तत्र भवान्याः करेण कर्तृभूतेनेत्यर्थः ॥ ४० ॥

इदानीं बहवो लोकाः त्वामायान्ति तत्र
पी
तेषामभीष्टं करोषीति कारणं वर्तते । अहं तु स्वभावादेव
त्वय्यनुरक्त इति
तुभ्यं शप इत्याह
-
प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती-

मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।

शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि

स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ४१
 

 
प्रपद्यन्त इति । भो मातः सुरधुनि, कति लोकाः अत्र-

भवतीं पूज्यां भवतीं त्वां न प्रपद्यन्ते नायान्ति, अपितु
 
बहवः
 
-
 
तेपामभीष्टं करो-
त्वय्यनुरक्त इति
 
धीतमस्तु
 
Institute