This page has been fully proofread once and needs a second look.

'आतो लोप इटि चे'त्याकारलोपः । एतादृशेऽस्मिन् समये
यदि त्यजसि तदा तर्हि अयं विश्वासः गङ्गा शरणागतकुशल-
कर्त्रीत्याकारो निश्चयः त्रिभुवनतलात् त्रिभुवनस्य तलं तस्मात्
अस्तं तिरोभावं अयते गच्छति गमिष्यतीति वा । 'वर्तमान-
सामीप्ये'इति भविष्यति लट् । च पुनः इयं निर्व्याजकरुणा
अकपटकरुणा निराधारा भवति निर्गतः आधारो यस्याः सा
एतादृशी भवति । खलु निश्चयेन । संदेहो नास्तीति भावः ।
विश्वासाभावेन कस्यापि तव निकटे आगमनाभावात् करुणा-
यास्तिरोधानत्वात् । लोकेऽपि यस्य विश्वासो नास्ति तस्य निकटे
कोपि नागच्छतीति प्रसिद्धमेव । एवंच माहात्म्यसंरक्षणाय
झटिति ममोद्धारणं कुर्विति गङ्गाया भीतिप्रदर्शनमिति भावः ।
क्वचित्तु समये इत्यस्य स्थाने विषये इति पाठः । तत्र विषयो-
द्धारणरूपे विषये इत्यर्थः ॥ ३९ ॥
 
इदानीं हरवामभागे काऽद्वितीया कान्ता वर्तते इति प्रेक्षितुं
कपर्दादुल्लस्य सीमन्तसरणौ आगता अतएव पार्वत्या सापत्न्य-
भावात् करेणाकर्षिता एतादृश्यस्तव लहर्यो विजयन्तामित्याह--
 
कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः
पुरारे: प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।
भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥
 
कपर्दादिति । भो जननि, ते तव लहरयः कपर्दात् शिव-
जटाजूटात् उल्लस्य प्रसृत्य प्रणयमिलदर्धाङ्गयुवतेः । प्रणयेन