This page has been fully proofread once and needs a second look.

प्रभेदा डमरुमड्डुडिण्डिमझर्झराः' इत्यमरः । तस्य तेन वा यः
टंकारः शब्दविशेषः तेन सुभगः शोभनं सुष्ठु वा भगं श्रीः
यस्य सः । 'भगं श्रीकाममाहात्म्ये’त्यमरः । सुन्दर इत्यर्थः ।
क्वचित्तटक्रोडेति पाठः ॥ ३८ ॥
 
इदानीं सर्वदा भवत्यां स्थापितकुशलचिन्ताभरं मां त्वं विषमे
अस्मिन् समये यदि त्यजसि तर्हि अतः परं भुवनत्रये तव विश्वासं
कोपि न कुर्यात् तव करुणा च निराधारा स्यादिति गङ्गायाः
भयप्रदर्शनेनाह--
 
सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।
तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते
निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥
 
सदैवेति । भो अम्ब, सदैव सर्वदैव त्वय्येव भवत्यामेव ।
एवो देवतीर्थान्तरं व्यावर्तयति । अर्पितकुशलचिन्ताभरं कुश-
लस्य क्षेमस्य। 'कुशलं क्षेममस्त्रिया'मित्यमरः । तस्य चिन्ता
कथं मम कुशलं भविष्यतीत्याकारिका तस्या भर आधिक्यम् ।
बह्वी चिन्तेत्यर्थः । भरः समूहो वा । अर्पितः स्थापितः कुशल-
चिन्ताभरो येन सः तम् । गङ्गैव मम कुशलं करिष्यतीति मन्य-
मानमित्यर्थः । इमं त्वत्समीपे वर्तमानमेतादृशं मां सुविषमे
सुतरामत्यन्तं विषमः दुःसहः तस्मिन् । अतिकठिन इत्यर्थः ।
यद्वा विषं गरलं मयते ददातीति विषमस्तस्मिन् 'मेङ् प्रणिदाने'
इत्यस्य 'आदे च उपदेशेऽशिती'त्यात्वे 'आतोऽनुपसर्गे का’ इति