This page has been fully proofread once and needs a second look.

५२
 
गङ्गालहरी ।
 

 
प्रभेदा डमरुमड्डुडिण्डिमझर्झराः' इत्यमरः । तस्य तेन वा यः

टंकारः शब्दविशेषः तेन सुभगः शोभनं सुष्टुठुवा भगं श्रीः

यस्य सः । 'भगं श्रीकाममाहात्म्ये 'त्यमरः । सुन्दर इत्यर्थः ।

क्वचित्तटक्रोडेति पाठः ॥ ३८ ॥
 

इदानीं सर्वदा भवत्यां स्थापितकुशलचिन्ताभरं मां त्वं विषमे

अस्मिन् समये यदि त्यजसि तर्हि अतः परं भुवनत्रये तव विश्वा
सं
कोपि न कुर्यात् तव करुणा च निराधारा स्यादिति गङ्गायाः

भयप्रदर्शनेनाह-
-)
 

सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं

यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।

तदा विश्वासोऽयं त्रिभुवनतलास्तमयते

निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥

सदैवेति । भो अम्ब, सदैव सर्वदेव त्वय्येव भवत्यामेव ।

एवो देवतीर्थान्तरं व्यावर्तयति । अर्पितकुशलचिन्ताभरं कुश-

लस्य क्षेमस्य। 'कुशलं क्षेममस्त्रिया'मित्यमरः । तस्य चिन्ता

कथं मम कुशलं भविष्यतीत्याकारिका तस्या भर आधिक्यम् ।

वही चिन्तेत्यर्थः । भरः समूहो वा । अर्पितः स्थापितः कुशल-

चिन्ताभरो येन सः तम् । गङ्गैव मम कुशलं करिष्यतीति मन्य-

मानमित्यर्थः । इमं त्वत्समीपे वर्तमानमेतादृशं मां सुविषमे

सुतरामत्यन्तं विषमः दुःसहः तस्मिन् । अतिकठिन इत्यर्थः ।

यद्वा विषं गरलं मयते ददातीति विषमस्तस्मिन् 'मे ग्रणिदाने'

इत्यस्य 'आदे च उपदेशेऽशिती' त्यात्वे 'आतोऽनुपसर्गे का इति
 
Research Institute