This page has been fully proofread once and needs a second look.

तटिनी गङ्गा तस्याः ताण्डवम् । तण्डुना तच्छास्त्रप्रवर्तकाचार्येण
प्रोक्तं ताण्डवं नाट्यम् । 'तेन प्रोक्त'मित्यणि 'ओर्गुणः' इति
गुण: । 'ताण्डवं नटनं नाट्य' मित्यमरः । तस्य विधिः करणम्
'विधिर्विधाने दैवे चे'त्यमरः । तापं अर्थाद्भक्तजनसंतापम् ।
यद्वा पूर्वश्लोकान्ममेत्यनुवर्तते । तथाच मम तापं तिरोधत्तां
अन्तर्धानं गमयतु । नाशयत्वित्यर्थः । ताण्डवसामग्रीमाह ।
कथंभूतस्त्रिदशतटिनीताण्डवविधिः । प्रदोषान्तर्नृत्यत्पुरमथन-
लीलोद्धृतजटातटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः । प्रदोषस्य
सूर्यास्तानन्तरं षट्घटिकात्मककालस्यान्तर्मध्ये नृत्यं कुर्वन् स
चासौ पुरमथनश्च शिवश्च तेन लीलया उद्धृताः उत् ऊर्ध्वं धृताः
इयं नृत्यचेष्टा एतादृश्यः याः जटाः संयताः केशाः । 'जटा
स्यात्संयतालकाः' इति कोशः । तटे आभोगः पतनात्मकः
संयोगसंबन्धः नृत्यत्पुरमथनलीलोद्धृतजटानां तटाभोगः तेन
ग्रेङ्खन्त्यः गच्छन्त्यः चञ्चला वा याः लहर्यः वीच्यः ता एव
भुजा: संतानं च विधुतिश्च संतानविधुती संतानं दीर्घीकरणं
विधुतिः कम्पः भुजानां संतानविधुती यस्मिन् स प्रदोषान्तः ।
इदं समस्तं व्यस्तं वा । उक्तप्रदोषलक्षणे प्रमाणं तु 'त्रिमुहूर्तं
प्रदोषः स्याद्भानावस्तंगते सती'ति हेमायायुदाहृतं वचनं
बोध्यमिति दिक् । संतानेत्यत्र संपूर्वक 'धूञ् कम्पने' इत्यस्मात्
स्त्रियां क्तिन् । पुनः कथंभूतः । त्रिदशतटिनीताण्डवविधिः ।
बिलक्रोडक्रीडञ्जलडमरुडंकारसुभगः बिलस्य विवरस्य क्रोडं
अर्थात् मध्यः 'न ना त्र्कोडं भुजान्तर' मित्यमरः । तत्र क्रीडत
विहरत् यज्ञ्जलं तदेव डमरुर्वाद्ययविशेषः । ढक्केत्यर्थः ’वाद्य-