This page has been fully proofread once and needs a second look.

५१
 
पीयूपलहरीव्याख्यासहिता ।
 

 

 
तटिनी गङ्गा तस्याः ताण्डवम् । तण्डुना तच्छास्त्रप्रवर्तकाचार्येण

प्रोक्तं ताण्डवं नाट्यम् । 'तेन प्रोक्त'मित्यणि 'ओर्गुणः' इति

गुण: । 'ताण्डवं नटनं नाट्य' मित्यमरः । तस्य विधिः करणम्

'विधिर्विधाने देदैवे चे'त्यमरः । तापं अर्थाद्भक्तजनसंतापम् ।

यद्वा पूर्व श्लोकान्म मेत्यनुवर्तते । तथाच मम तापं तिरोधचां
त्तां
अन्तर्धानं गमयतु । नाशयत्वित्यर्थः । ताण्डवसामग्रीमाह ।

कथंभूत स्त्रिदशतटिनी ताण्डवविधिः । प्रदोषान्तर्नृत्यत्पुरमथन-

लीलोद्धृतजटातटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः । प्रदोषस्य

सूर्यास्तानन्तरं पट्घटिकात्मककालस्यान्तर्मध्ये नृत्यं कुर्वन् स

चासौ पुरमथनश्च शिवश्च तेन लीलया उद्धृताः उत् ऊर्ध्वं धृताः

इयं नृत्यचेष्टा एतादृश्यः याः जटाः संयताः केशाः । 'जटा

स्यात्संयतालकाः' इति कोशः । तटे आभोगः पतनात्मकः

संयोगसंबन्धः नृत्यत्पुरमथनलीलोद्धृतजटानां तटाभोगः तेन

ग्रेङ्खन्त्यः गच्छन्त्यः चञ्चला वा याः लहर्यः वीच्यः ता एव

भुजा: संतानं च विधुतिश्च संतानविधुती संतानं दीर्घीकरणं

विधुतिः कम्पः भुजानां संतानविधुती यस्मिन् स प्रदोषान्तः ।

इदं समस्तं व्यस्तं वा । उक्तप्रदोषलक्षणे प्रमाणं तु 'त्रिमुहूर्त

प्रदोषः स्याद्भानावस्तंगते सती'ति हेमायायुदाहृतं वचनं

बोध्यमिति दिक् । संतानेत्यत्र संपूर्वक 'धूञ् कम्पने' इत्यसात्
स्मात्
स्त्रियां क्तिन् । पुनः कथंभूतः । त्रिदशतटिनीताण्डवविधिः ।
वि

बि
लक्रोडक्रीडजलडमरुडंकारसुभगः बिलस्य विवरस्य क्रोर्ड
डं
अर्थात् मध्यः 'न ना कोडं भुजान्तर' मित्यमरः । तत्र क्रीडत

विहरत् यज्जलं तदेव डमरुर्वाद्ययविशेषः ।
 
POONA
 
ढक्केत्यर्थः ’वाद्य-
तेजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute