This page has been fully proofread once and needs a second look.

समुदायः तस्याः परित्राणं पालनं तत्र स्नेहः प्रेम । 'प्रेमा ना
प्रियता हार्दं प्रेम स्नेह' इत्यमरः । श्लथयितुं त्यक्तुं यथाऽशक्यः
खलु निश्चयेन, एवं दुरितनिवहे दुरितस्य पापस्य निवहः समू-
हस्तत्र ममापि प्रेमा प्रियता । अस्तीति शेषः । यतो यस्मात्का-
रणात् जगति सर्वैरपि अयं स्वभावो निसर्गः । 'स्वरूपं च स्वभा-
वश्च निसर्गश्चे'त्यमरः । दुष्परिहरः दुःखेनापि परिहर्तुमशक्यः ।
अस्तीति शेषः । दुःखशब्दे उपपदे हरते: 'ईषद्दु:स्वि’ति सूत्रेण
खल् । यद्वा दुरितनिवहे जगतीति योजना । व्रात्याधमपतित-
येत्यनेन तेषामपि रक्षणे किं वक्तव्यं पुण्यवतामित्यावेदितम् ।
खण्डमित्यनेन अवयवस्य पालने किं वक्तव्यमवयविन इत्या-
शयः । परिषदित्यनेनैकमपि न त्यजत इति भावः । दुरितनि-
वहेत्यनेन बहुषु पातकेषु ममेच्छा नत्वेकस्मिन् द्वयोर्वेत्यावेदि-
तम् । अत्र निन्दया स्तुत्यमिव्यक्तेर्व्याजस्तुत्यलंकारः। तदुक्तं
कुवलयानन्दे 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो’-
रिति । मम यथा,'विवेकलेशोपि न ते रामचन्द्र रणे रिपून् । हतान्
स्वनाशकान् शीघ्रं पापिनो नयसे दिव'मिति । अत्रारीन् दिवं
नयसे इत्युक्त्या भक्तानवश्यं नयसे इति स्तुत्यभिव्यक्तिः ॥ ३७ ॥
 
इदानीं गङ्गाताण्डवविधिं वर्णयन् स्वतापशमनं प्रार्थयते--
 
प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-
तटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः ।
बिलक्रीडक्रोडज्जलडमरुडंकारसुभग-
स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥
 
प्रदोषेति । त्रिदशतटिनीताण्डवविधिः त्रिदशानां देवानां