This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
समुदायः तस्याः परित्राणं पालनं तत्र स्नेहः प्रेम । 'प्रेमा ना

प्रियता हार्दं प्रेम स्नेह' इत्यमरः । श्लथयितुं त्यक्तुं यथाऽशक्यः

खलु निश्चयेन, एवं दुरितनिवहे दुरितस्य पापस्य निवहः समू-

हस्तत्र ममापि प्रेमा प्रियता । अस्तीति शेषः । यतो यस्मात्का-

रणात् जगति सर्वैरपि अयं स्वभावो निसर्गः । 'स्वरूपं च खभा-

श्च निसर्गश्चे 'त्यमरः । दुष्परिहरः दुःखेनापि परिहर्तुमशक्यः ।

अस्तीति शेषः । दुःखशब्दे उपपदे हरते: 'ईदुःखि ति सूत्रेण

खलू । यद्वा दुरितनिवहे जगतीति योजना । व्रात्याधमपतित-

येत्यनेन तेषामपि रक्षणे किं वक्तव्यं पुण्यवतामित्या वेदितम् ।

खण्डमित्यनेन अवयवस्य पालने किं वक्तव्यमवयविन इत्या-

शयः । परिषदित्यनेनैकमपि न त्यजत इति भावः । दुरितनि-

वहेत्यनेन बहुषु पातकेषु ममेच्छा नत्वेकस्मिन् द्वयोर्वेत्या वेदि-

तम् । अत्र निन्दया स्तुत्यमिव्यक्तेर्व्याजस्तुत्यलंकारः। तदुक्तं

कुवलयानन्दे 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो -

रिति । मम यथा, 'विवेकलेशोपि न ते रामचन्द्र रणे रिपून् । हतान्

स्वनाशकान् शीघ्रं पापिनो नयसे दिव' मिति । अत्रारीन् दिवं

नयसे इत्युक्त्या भक्तानवश्यं नयसे इति स्तुत्यभिव्यक्तिः ॥३७॥

इदानीं गङ्गाताण्डवविधिधिं वर्णयन् स्वतापशमनं प्रार्थयते-

प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-

तटाभोगप्रेङ्खलहरिभुजसंतानविधुतिः ।

बिलक्रीडक्रोडजलडमरुडंकारसुभग-

स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥

प्रदोषेति । त्रिदशतटिनीताण्डवविधिः त्रिदशानां देवानां
 
Research Institute
 
INSTITUTE
 
POONA
 
1917
 
मस्तु