2023-02-25 06:39:25 by ambuda-bot
This page has not been fully proofread.
गङ्गालहरी ।
समुदायः तस्याः परित्राणं पालनं तत्र स्नेहः प्रेम । 'प्रेमा ना
प्रियता हार्द प्रेम स्नेह' इत्यमरः । श्लथयितुं त्यक्तुं यथाऽशक्यः
खलु निश्चयेन, एवं दुरितनिवहे दुरितस्य पापस्य निवहः समू-
हस्तत्र ममापि प्रेमा प्रियता । अस्तीति शेषः । यतो यस्मात्का-
रणात् जगति सर्वैरपि अयं स्वभावो निसर्गः । 'स्वरूपं च खभा-
चश्च निसर्गचे 'त्यमरः । दुष्परिहरः दुःखेनापि परिहर्तुमशक्यः ।
अस्तीति शेषः । दुःखशब्दे उपपदे हरते: 'ईपदुःखि ति सूत्रेण
खलू । यद्वा दुरितनिवहे जगतीति योजना । व्रात्याधमपतित-
येत्यनेन तेषामपि रक्षणे किं वक्तव्यं पुण्यवतामित्या वेदितम् ।
खण्डमित्यनेन अवयवस्य पालने किं वक्तव्यमवयविन इत्या-
शयः । परिषदित्यनेनैकमपि न त्यजत इति भावः । दुरितनि-
वहेत्यनेन बहुषु पातकेषु ममेच्छा नत्वेकस्मिन् द्वयोर्वेत्या वेदि-
तम् । अत्र निन्दया स्तुत्यमिव्यक्तेर्व्याजस्तुत्यलंकारः। तदुक्तं
कुवलयानन्दे 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो -
रिति । मम यथा, 'विवेकलेशोपि न ते रामचन्द्र रणे रिपून् । हतान्
स्वनाशकान् शीघ्रं पापिनो नयसे दिव' मिति । अत्रारीन् दिवं
नयसे इत्युक्त्या भक्तानवश्यं नयसे इति स्तुत्यभिव्यक्तिः ॥३७॥
इदानीं गङ्गाताण्डवविधि वर्णयन् स्वतापशमनं प्रार्थयते-
प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-
तटाभोगप्रेङ्खलहरिभुजसंतानविधुतिः ।
बिलक्रीडक्रोडजलडमरुडंकारसुभग-
स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥
प्रदोषेति । त्रिदशतटिनीताण्डवविधिः त्रिदशानां देवानां
Research Institute
INSTITUTE
POONA
1917
मस्तु