This page has been fully proofread once and needs a second look.

करोति । सुखमित्यनेन तत्रैव मम सुखं नान्यत्रेति सूचितम् ।
ननु एवंच लोकद्वये तव का गतिरिति चेत्तत्राह ॥ कथंभूतोऽ-
यम् । त्वयि निहितलोकद्वयभरः । त्वयि भवत्यां लोकद्वये इहलोके
परलोके च भरः सर्वेभ्य उत्कृष्टता निहितः स्थापितः लोकद्व-
यभरो येन सः । भरः उदरपोषणं वा । 'डुभृञ् धारणपोषणयो'
रित्यस्मादचीति दिक् ॥ ३६ ॥
 
इदानीं ननु रे पापनिवृत्तये मां स्तौषि तत्रादौ पापमेव
किमर्थं करोषीति चेत्त्वया स्वपतिताश्लीलशवशकलसमुदायप-
रित्राणं यथा क्रियते तथा मयापि पापं क्रियते स्वस्वभावस्य
सर्वैरपि दुष्परिहार्यत्वादित्याह--
 
भवत्या हि [^]व्रात्याधमपतितया खण्डपरिषत्
परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा ।
ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति
स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७ ॥
 
भवत्या हीति । भो अम्ब, व्रात्याधमपतितया व्रात्याश्चा -
धमाश्च व्रात्याधमाः व्रात्याः संस्कारहीनाः अधमा नीचाः ते
पतिताः यस्यां सा तया । आहिताग्न्यदित्वात्पतितशब्दस्य पर-
निपातः । यद्यपि पतेः 'सनितनिपति' इति वार्तिकेन वेट्कत्वात्
निष्ठायां 'यस्य विभाषे’तीण्निषेधः प्राणेति तथा 'द्वितीया
श्रितातीतपतिते'ति निपातनाद्भवति । एतादृश्या भवत्या त्वया
खण्डपरिषत्परित्राणस्नेहः खण्डानामर्थात् स्वपतितशवशकलानां ।
'भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके' इत्यमरः । परिषत्
-------------------------------------
[^१]पतितपाखण्डपरिषत् इति पाठः ।