This page has been fully proofread once and needs a second look.

लोकेऽपि दुष्टः प्रभुभृत्यत्वसंबन्धमाहात्म्येन महत्कार्यं करोतीति
प्रसिद्धमेव ॥ ३५ ॥
 
इदानीं केचन लोकाः परकार्यसंपादकाः सन्ति, केचन
पवित्रात्मानः सन्तः परलोकप्रणयिनो भवन्ति, अहं तु त्वयि
स्थापितलोकद्वयभरः सन् सुखेन निद्रां करोमीत्याह--
 
कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः
परे पूतात्मानः कति च परलोकप्रणयिनः ।
सुखं शेते मातस्तव खलु कृपातः पुनरयं
जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६ ॥
 
कियन्त इति । भो मातः, कियन्तः कतिसंख्याकाः एके
साधारणा लोकाः इह जगति नियतं लोकार्थघटकाः लोकानां
जनानां अर्थाः प्रयोजनानि । 'अर्थरैविभवा अपि' इत्यमरः ।
तेषां घटकाः संयोजकाः सन्ति । यद्वा इह कियन्तः एके
लोकार्थघटकाः सन्तः परलोकप्रणयिनः परलोकं प्रणयन्ति
प्रार्थयन्ति ते । यद्वा परलोकं प्रकर्षेण नयन्ति गच्छन्ति ते
परलोकप्रणयिनः सन्तीति योजना । इहलोके परकार्यसंपादन-
जन्यपुण्येन स्वर्गलोकं गच्छन्ति । एवंच तेषामयं लोकः परलो-
कश्च समीचीन इत्याकूतम् । परे चान्ये च कति । यद्वा कति-
परे च पूतात्मानः सन्तः पूतः तपःसेवनादिना पवित्रः
आत्मा येषां ते एतादृशाः सन्तः नियतं परलोकप्रणयिनः सन्ति
भो मातः, अयं जगन्नाथः । तु पुनःशब्दस्त्वर्थः । तव कृपातः ।
पञ्चम्यन्तात्तसिल् । दयाहेतोः शश्वन्निरन्तरं सुखं यथा
स्यात्तथा शेते निद्रां करोति । शश्वदित्यनेन कदापि अन्यन्न