This page has been fully proofread once and needs a second look.

४८
 
गङ्गालहरी ।
 

 
लोकेऽपि दुष्टः प्रभुभृत्यत्वसंबन्धमाहात्म्येन महत्कार्यं करोतीति

प्रसिद्धमेव ॥ ३५ ॥
 

 
इदानीं केचन लोकाः परकार्यसंपादकाः सन्ति, केचन

पवित्रात्मानः सन्तः परलोकप्रणयिनो भवन्ति, अहं तु त्वयि

स्थापितलोकद्वयभरः सन् सुखेन निद्रां करोमीत्याह-

कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः

परे पूतात्मानः कति च परलोकप्रणयिनः ।

सुखं शेते मातस्तव खलु कृपातः पुनरयं

जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ३६

कियन्त इति । भो मातः, कियन्तः कतिसंख्याकाः एके

साधारणा लोकाः इह जगति नियतं लोकार्थघटकाः लोकानां

जनानां अर्थाः प्रयोजनानि । 'अर्थरैविभवा अपि' इत्यमरः ।

तेषां घटकाः संयोजकाः सन्ति । यद्वा इह कियन्तः एके

लोकार्थघटकाः सन्तः परलोकप्रणयिनः परलोकं प्रणयन्ति

प्रार्थयन्ति ते । यद्वा परलोकं प्रकर्षेण नयन्ति गच्छन्ति ते

परलोकप्रणयिनः सन्तीति योजना । इहलोके परकार्यसंपादन-

जन्यपुण्येन स्वर्गलोकं गच्छन्ति । एवंच तेषामयं लोकः परलो-
कक्ष

कश्च
समीचीन इत्याकृतम् । परे चान्ये च कति । यद्वा कति-

परे च पूतात्मानः सन्तः पूतः तपःसेवनादिना पवित्रः

आत्मा येषां ते एतादृशाः सन्तः नियतं परलोकप्रणयिनः सन्ति

भो मातः, अयं जगन्नाथः । तु पुनःशब्दस्त्वर्थः । तव कृपातः ।

पञ्चम्यन्तात्तसिल् । दयाहेतोः
 
1917
 
शश्वनिरन्तरं सुखं यथा
कदापि
 
स्यात्तथा शेते निद्रां करोति । शश्वदित्यनेन
 
कदापि अन्यन्न
 
-
 
नावधी
 
Research Institute
 
त्र