This page has not been fully proofread.

गङ्गालहरी ।
 

 
आसफविलासे तैलङ्गकुलावतंसेन जगन्नाथेनेति विन्यासादस्या-

भिजनस्तैलङ्गापरनामाऽऽन्ध्रदेश इति निश्चीयते। पिता चास्य पण्डित-
मण्डलीमण्डनायमानः पेरुभट्टो नाम प्रशंसनीयोऽध्यापक आसीत् ।
माता च महासाध्वी लक्ष्मीर्नाम । उभयोः सुकृतातिरेकादेवाखिल-
पण्डितपाण्डित्यगर्व सर्वंकषो जगन्नाथस्तनयः संवृत्तः । एतस्य हि तत्त-
द्रसपूरितेषु पठ्यमानेषु तेषु तेषु पद्येषु तत्तद्रसमयतामिवापद्यते चेतो
रसिकानाम् । मुहुर्मुहुः पठितान्यप्येतस्य पद्यानि पठ्यमानानि नवं
नवमेव कमप्यपूर्वं रसं वितरन्ति । पण्डितमूर्धन्यस्यास्य
प्रज्ञाप्रकर्षलु-
नवमेव कमप्यपूर्वं रसं वितरन्ति । पण्डितमूर्धन्यस्यास्य प्रज्ञाप्रकर्षलुब्धेन दिल्लीवल्लभेन शहाजहानबादशाहेन मनोविनोदास्पदा निजतन-

यास्मै प्रदत्ताऽतुलपारिबर्हविभवभवना दिदानेन सह । सच तया सहा-
लभ्यान्विविधविषयभोगाननुभुञ्जन् स्वर्पतिरिव दिव्यान्भोगानहरह-
रनुसवनं प्रकामं जुषमाणश्चिरायारीरमत् ।
 

अथैकदोढया यवन्या सह चरमे वयसि काश्यामुपगतः पण्डि-
तरायस्तदा तत्रत्यैः सभ्य पण्डितैर्यवनकन्यापरिणेतृत्वाव्यवहार्योऽय-

मिति सतिरस्कारं सर्वत्रोद्घोषि । पण्डितमण्डलकृताव्यवहार्यताव-

माननाद्विषण्णान्तःकरणो जगन्नाथरायस्तान्प्रावोचत् 'यदि मां मत्प्रे-
यसीं चैनां तत्रभवन्तो भवन्तः पावयेयुर्नयेयुश्चाखिलैर्ब्राह्मणैः सह
पङ्किपावनत्वं तदा युष्मदादिष्टं प्रायश्चित्तमङ्गीकरिष्यामी' ति । तदपि
प्रार्थनं विद्वत्तिरस्कृतमवगत्य, आस्तां किं मेऽवमानोद्युकैरेभिर्ब्राह्मणै
स्तद्वितीर्णेन सामान्येनानेन प्रायश्चित्तेन वा, जगत्रयपावनी भगवती
सुरतरङ्गिण्येव नूनं सभाभर्यं मां पावयिष्यतीति सनिश्चयमाचक्षणः
पण्डितराजो द्विपश्चाशत्सो पानान्तरित भागीरथीप्रवाहं कमपि घट्ट

मूर्धानमधिष्ठाय सुललितपदबन्धनानि एकपञ्चाशत् पद्याति प्रणी

पीपठत् । यान्येव सांप्रतं गङ्गालहरीति पीयूषलहरीति वा स
 
1917
 
Research Institute