This page has been fully proofread once and needs a second look.

तासां लीलाचलितलहरीणां लीलया चलिताः चञ्चलाः
गच्छन्तो वा । 'चल गता'वित्यस्मात् 'गत्यर्थाकर्मक--' इत्यनेन
कर्तरि क्तः । एतादृश्यो या लहर्यः तासां व्यतिकरात्संबन्धात्
त्रिभुवनं जगत्त्रयं पुनीते पवित्रीकरोति । अहहेत्यद्भुते । 'अहहे-
त्यद्भुते खेदे' इत्यमरः । ननु देवोपि वायुः कथं चौर्यादिगुण-
युक्त इत्याकाङ्क्षायामाह । स कः । यः पवमानः सुमनसां पुष्पा-
णाम् । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अलभ्यमन्यत्र
चौरैरप्राप्यम् । अनेन चौर्ये वायोः कौशल्यमावेदितम् । एतादृशं
सौरभ्यं सौगन्ध्यं नियतं सततं यथा तथा हरति चोरयति ।
पुनः स कः । यः विरहशस्त्रक्षतभृतां विरह एव स्त्र्यदिवियोग
एव शस्त्रं मारकत्वात् । यद्वा विरहश्च शस्त्रं च विरहशस्त्रे
ताभ्यां यत् क्षतं तत् बिभ्रति ते विरहशस्त्रक्षतभृतः तेषाम् ।
क्वचित्तु विरहशस्त्रक्षतहृदामिति पाठः । तत्र विरहशस्त्राभ्यां
क्षतं क्षतयुक्तं कृतं विदारितमिति यावत् । तादृशं हृत् येषामिति
समासः । यद्वा विरहशस्त्रयोः क्षतं यस्मिन्निति व्यधिकरणपदो
बहुव्रीहिः । तादृशं हृत् येषाम् । विरहशस्त्रक्षतयुक्तं हृत्
येषामिति शाकपार्थिवादित्वान्मध्यमपदलोपी समासो वा ।
तेषां प्राणानपि असूनपि । 'पुंसि भूम्न्यसवः प्राणाः' इत्यमरः ।
क्षणादेव क्षणमात्रेणैव नियतं यथा स्यात्तथा हरति एतादृशः
दुष्टो वायुः श्रेष्ठत्वल्लहरिसंबन्धमाहात्म्येन महत्कार्यं करो-
तीति भावः । उक्तं च हनुमन्नाटके--'ये मज्जन्ति निमज्जयन्ति
च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्संतार-
यन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां
गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥’ इति ।