This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
तासां लीलाचलितलहरीणां लीलया चलिताः चञ्चलाः

गच्छन्तो वा । 'चल गता' वित्यस्मात् 'गत्यर्थाकर्म/5-' इत्यनेन

कर्तरि क्तः । एतादृश्यो या लहर्यः तासां व्यतिकरात्संबन्धात्

त्रिभुवनं जगत्रयं पुनीते पवित्रीकरोति । अहहेत्यद्भुते। 'अहहे-

त्यद्भुते खेदे' इत्यमरः । ननु देवोपि वायुः कथं चौर्यादिगुण-

युक्त इत्याकाङ्क्षायामाह । स कः । यः पवमानः सुमनसां पुष्पा-

णाम् । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अलभ्यमन्यत्र

चौरैरप्राप्यम् । अनेन चौर्ये वायोः कौशल्यमावेदितम् । एतादृशं

सौरभ्यं सौगन्ध्यं नियतं सततं यथा तथा हरति चोरयति ।

पुनः स कः । यः विरहशस्त्रक्षतभृतां विरह एव ख्यादिवियोग

एव शस्त्रं मारकत्वात् । यद्वा विरहश्च शस्त्रं च विरहशस्त्रे

ताभ्यां यत् क्षतं तत् विबिभ्रति ते विरहशस्त्रक्षतभृतः तेषाम् ।

क्वचित्तु विरहशस्त्रक्षतहृदामिति पाठः । तत्र विरहशस्त्राभ्यां

क्षतं क्षतयुक्तं कृतं विदारितमिति यावत् । तादृशं हृत् येषामिति

समासः । यद्वा विरहशस्त्रयोः क्षतं यस्मिन्निति व्यधिकरणपदो

बहुव्रीहिः । तादृशं हृत् येषाम् । विरहशस्त्रक्षतयुक्तं हृत्

येषामिति शाकपार्थिवादित्वान्मध्यमपदलोपी समासो वा ।

तेषां प्राणानपि असूनपि । 'पुंसि भूम्यसवः प्राणाः' इत्यमरः ।

क्षणादेव क्षणमात्रेणैव नियतं यथा स्यात्तथा हरति एतादृशः

दुष्टो वायुः श्रेष्ठत्वल्लहरिसंबन्धमाहात्म्येन महत्कार्यं करो-

तीति भावः । उक्तं च हनुमन्नाटके- 'ये मज्जन्ति निमज्जयन्ति

च परांस्ते प्रस्तरा दुस्तरे वार्थीधौ वीर तरन्ति वानरभटान्संतार-

यन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां

गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं
 
समुज्जृम्भते
इति ।
 
1917
 
तिजारव नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute