2023-03-31 13:32:41 by Rupa jha
This page has been fully proofread once and needs a second look.
सतीः । तस्य एकस्त्रीत्वेपि जात्यभिप्रायेण बहुवचनमिति यथाक-
थंचिद्योज्यम् । तथाचानेकार्थकोशः 'गुरुः पिता गुरुः श्रेष्ठो गुरुः
सुरपुरोहितः । दुर्वहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिसेवकः'
इति । पुनस्ते के। ये मैरेयं सीधुम् । 'मैरेयमासवः सीधुः'
इत्यमरः । पिबन्तः पानं कुर्वन्तः । पुनस्ते के। ये कनकं सुव-
र्णम् । 'सुवर्णं कनकम्' इत्यमरः । हरन्तः चोरयन्तः । कथंभूताः
ते । अखिलसुरसंभावितपदाः अखिलसुरैः समस्तदेवैः संभावित
संभावनायुक्तं कृतम् । पूजितमिति यावत् । तादृशं पदं चरणं
येषां ते । बहुवचनान्तेन समासः । यद्वा अखिलसुराणां संभा-
वितं प्राप्तं तादृशं पदं स्थानं यैस्ते । 'सप्तमीविशेषणे--' इति
ज्ञापकाव्द्यधिकरणपदो बहुव्रीहिर्वा कर्तव्यः । संपूर्वकभूधातोर्णि-
जन्तात्कः । उपसर्गबलादुक्तार्थलाभः ॥ ३४ ॥
इदानीं महान् चोरः पुनरपि नराणां प्राणहारकोऽपि वायुः
त्वल्लहरिबन्धमाहात्म्येन त्रिभुवनं पवित्रीकरोतीत्याह-----
अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षेष[^१]तभृताम् ।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ३५
अलभ्यमिति । भो अम्ब, सोऽपि परचौर्यपरप्राणहारित्वा-
दिगुणयुक्तोऽपि पवमानः प्रभञ्जनः । 'पवमानः प्रभञ्जनः
इत्यमरः । त्वदीयानां तव इमाः त्वदीयाः । 'युष्मदस्मदोरन्य-
तरस्यां खञ्च' इति चाच्छः । 'प्रत्ययोत्तरपदयोश्चे' ति त्वादेशः ।
-------------------------------
[^१] क्षतहृदाम् इति पाठः ।

क्षणादेव प्राणानपि विरहशस्त्रक्