This page has been fully proofread once and needs a second look.

४६
 
गङ्गालहरी ।
 

 
सतीः । तस्य एक स्त्रीत्वेपि जात्यभिप्रायेण बहुवचनमिति यथाक-

थंचियोज्यम् । तथाचानेकार्थकोशः 'गुरुः पिता गुरुः श्रेष्ठो गुरुः

सुरपुरोहितः । दुर्वहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिसेवकः'

इति । पुनस्ते के। ये मैरेयं सीधुम् । 'मैरेयमासवः सीधुः'

इत्यमरः । पिबन्तः पानं कुर्वन्तः । पुनस्ते के। ये कनकं सुव-

र्णम् । 'सुवर्ण कनकम्' इत्यमरः । हरन्तः चोरयन्तः । कथंभूताः

ते । अखिलसुरसंभावितपदाः अखिलसुरैः समस्तदेवैः संभावित

संभावनायुक्तं कृतम् । पूजितमिति यावत् । तादृशं पदं चरणं

येषां ते । बहुवचनान्तेन समासः । यद्वा अखिलसुराणां संभा-

वितं प्राप्तं तादृशं पदं स्थानं यैस्ते । 'सप्तमीविशेषणे-' इति

ज्ञापकाव्यधिकरणपदो बहुव्रीहिर्वा कर्तव्यः । संपूर्वक भूधातोर्णि-

जन्तात्कः । उपसर्गबलादुक्तार्थलाभः ॥ ३४ ॥
 

 
इदानीं महान् चोरः पुनरपि नराणां प्राणहारकोऽपि वायुः

त्वल्लहरिन्धमाहात्म्येन त्रिभुवनं पवित्रीकरोतीत्याह-

अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां

क्षणादेव प्राणानपि विरहशस्त्रक्षेतभृताम् ।

त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्

पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ३५

अलभ्यमिति । भो अम्ब, सोऽपि परचौर्यपरप्राणहारित्वा-

दिगुणयुक्तोऽपि पवमानः प्रभञ्जनः । 'पवमानः प्रभञ्जनः

इत्यमरः । त्वदीयानां तव इमाः त्वदीयाः । 'युष्मदस्मदोरन्य-

तरस्यां खञ्च' इति चाच्छः । 'प्रत्ययोत्तरपदयोश्चे' ति स्वादेशः ।

 
 
१ क्षतहृदाम् इति पाठः ।
 
तंजस्वि
 
लावधीतमस्तु
 
Bhandarkar Oriental
Research Institute