This page has been fully proofread once and needs a second look.

अन्ते मरणसमये त्वयि तनुं शरीरं विहाय संत्यज्य अतनुदा-
नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तद्दानं च तेन
येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ: सवोऽध्वरो यागः'
इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व-
राश्च । यद्वा अतनुदानानि चाध्वराश्च । यद्वा न तनुः कोपः तेन
यानि दानानि अध्वराश्च। 'तनुः कोपे त्वचि स्त्री स्यात्त्रिष्वल्पे
विरले कृशे' इति मेदिनी । तान् जुषन्ति सेवन्ते । कुर्वन्तीत्यर्थः ।
ते अतनुदानाध्वरजुषः तेषां उपरि उपरिलोके क्रीडन्ति । विह-
रति महादानयागप्राप्यलोकोपरितनलोकं गच्छन्तीत्यर्थः । तथाच
गङ्गातनुत्यागादेवोत्तमलोकप्राप्तौ परमोत्कृष्टसाध्यमहादानया-
गेषु न किंचिदधिकं फलमिति भावः । ते के। ये पापाः विप्रानपि
ब्राह्मणानपि अविरतं निरन्तरं यथास्यात्तथा । इदं सर्वक्रिया-
न्वयि । घ्नन्ति ते घ्नन्तः । हनधातोः शतरि 'गमहन--' इत्युप-
धालोपः । 'न लोपे'ति पष्ठीनिषेधाद्विप्रानित्यादिद्वितीया । पुनः
ते के। ये गुरुसतीः गृणाति बोधकं करोतीति गुरुः । 'कॄग्रो-
रुच्चे' इत्युणादिसूत्रेण 'गॄ शब्दे' इत्यस्मात् कुप्रत्ययः । उकारश्चा-
न्तादेश: गुरुः। तथा चोपनयनादर्वाचीनसंस्कारपूर्वकं वेदाध्यापको
मन्त्रोपदेशकश्च गुरुः । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । तस्य सत्यः
पतिव्रताः स्त्रियः । 'सती साध्वी पतिव्रता' इत्यमरः । ताः
उशन्तः वशन्ति इच्छन्ति ते उशन्तः । 'वश कान्तौ' अदादिः ।
तत्र हि कान्तिरिच्छेत्युक्तम् । तस्माच्छतरि 'ग्रहिज्या--’ इति
संप्रसारणम् । यद्वा गुरोः पितुः सती: । मातॄरित्यर्थः । यद्वा गुरोः
श्रेष्ठपितृव्यभ्रातृमातृमातुलादेः सतीः । यद्वा गुरोः बृहस्पतेः