2023-03-31 13:30:56 by Rupa jha
This page has been fully proofread once and needs a second look.
अन्ते मरणसमये त्वयि तनुं शरीरं विहाय संत्यज्य अतनुदा-
नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तदानं च तेन
येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ' सवोऽध्वरो यागः'
इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व-
राश्च । यद्वा अतनुदानानि चाध्वराश्च । यद्वा न तनुः कोपः तेन
यानि दानानि अध्वराश्च। 'तनुः कोपः त्वचि स्त्री स्वात्न्न्रिष्वल्पे
विरले कृशे' इति मेदिनी । तान् जुषन्ति सेवन्ते । कुर्वन्तीत्यर्थः ।
ते अतनुदानाध्वरजुषः तेषां उपरि उपरिलोके क्रीडन्ति । विह-
रति महादानयागप्राप्यलोकोपरितनलोकं गच्छन्तीत्यर्थः । तथाच
गङ्गातनुत्यागादेवोत्तमलोकप्राप्तौ परमोत्कृष्टसाध्यमहादानया-
गेषु न किंचिदधिकं फलमिति भावः । ते के। ये पापाः विप्रानपि
ब्राह्मणानपि अविरतं निरन्तरं यथास्यात्तथा । इदं सर्वक्रिया-
न्वयि । घ्नन्ति ते घ्नन्तः । हनधातोः शतरि 'गमहन--' इत्युप-
धालोपः । 'न लोपे'ति पष्ठीनिषेधाद्विप्रानित्यादिद्वितीया । पुनः
ते के। ये गुरुसतीः गृणाति बोधकं करोतीति गुरुः । 'कृग्रो-
रुच्चे' इत्युणादिसूत्रेण 'गृ शब्दे' इत्यस्मात् कुप्रत्ययः । उकारश्चस्न्तादेशः गुरुः। तथा चोपनयनादर्वाचीनसंस्कारपूर्वकं वेदाध्यापको मन्त्रोपदेशकश्च गुरुः ।
'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । तस्य सत्यः पतिव्रताः स्त्रियः ।
'सती साध्वी पतिव्रता' इत्यमरः । ताः उशन्तः वशन्ति इच्छन्ति ते उशन्तः ।
'वश कान्तौ' अदादिः । तत्र हि कान्तिरिच्छेत्युक्तम् । तसाच्छतरि 'ग्रहिज्या--’ इति
संप्रसारणम् । यद्वा गुरोः पितुः सती: । मातृरित्यर्थः । यद्वा गुरोः
श्रेष्ठपितृव्यभ्रातृमातृमातुलादेः सतीः । यद्वा गुरोः बृहस्पतेः
नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तदानं च तेन
येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ' सवोऽध्वरो यागः'
इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व-
राश्च । यद्वा अतनुदानानि चाध्वराश्च । यद्वा न तनुः कोपः तेन
यानि दानानि अध्वराश्च। 'तनुः कोपः त्वचि स्त्री स्वा