2023-02-25 06:39:25 by ambuda-bot
This page has not been fully proofread.
पीयूषलहरीव्याख्यासहिता ।
अन्ते मरणसमये त्वयि तनुं शरीरं विहाय संत्यज्य अतनुदा-
नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तदानं च तेन
येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ' सवोऽध्वरो यागः'
इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व-
रात्र । यद्वा अतनुदानानि चाध्वराच । यद्वा न तनुः कोपः तेन
यानि दानानि अध्वराथ। 'तनुः कोपे त्वचि स्त्री स्वात्रिष्वल्पे
विरले कृशे' इति मेदिनी । तान् जुषन्ति सेवन्ते । कुर्वन्तीत्यर्थः ।
ते अतनुदानाध्वरजुषः तेषां उपरि उपरिलोके क्रीडन्ति । विह-
रति महादानयागप्राप्यलोकोपरितनलोकं गच्छन्तीत्यर्थः । तथाच
गङ्गात नुत्यागादेवोत्तमलोकप्राप्तौ परमोत्कृष्टसाध्यमहादानया-
गेषु न किंचिदधिकं फलमिति भावः । ते के। ये पापाः विप्रानपि
ब्राह्मणानपि अविरतं निरन्तरं यथास्यात्तथा । इदं सर्वक्रिया-
न्वयि । नन्ति ते घ्नन्तः । हनधातोः शतरि 'गमहन-' इत्युप-
धालोपः । 'न लोपे'ति पष्ठीनिषेधाद्विप्रानित्यादिद्वितीया । पुनः
ते के। ये गुरुसतीः गृणाति बोधकं करोतीति गुरुः । 'कृग्रो-
रुच्चे' इत्युणादिसूत्रेण 'गृ शब्दे' इत्यस्मात् कुप्रत्ययः । उकारचा-
न्तादेशः । तथा चोपनयनादर्वाचीन संस्कारपूर्वकं वेदाध्यापको
मत्रोपदेशकश्च गुरुः । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । तस्य सत्यः
पतिव्रताः स्त्रियः । 'सती साध्वी पतिव्रता' इत्यमरः । ताः
उशन्तः वशन्ति इच्छन्ति ते उशन्तः । 'वश कान्तौ' अदादिः ।
तत्र हि कान्तिरिच्छेत्युक्तम् । तसाच्छतरि 'ग्रहिज्या इति
संप्रसारणम् । यद्वा गुरोः पितुः सती: । मातृरित्यर्थः । यद्वा गुरोः
श्रेष्ठपितृव्य भ्रातृमातृमातुलादेः सतीः । यद्वा गुरोः बृहस्पतेः
STITUT
POONA
तेजस्विन
Bhandarkar Oriental
Research Institute