This page has been fully proofread once and needs a second look.

एवेत्यर्थः । पतन्ति । भो मातः, अयं विभागः विषयव्यवस्था
तस्मिन्नशुभमयमूर्तौ अशुभमयीं अकल्याणप्रचुरा मूर्तिः तनुर्यस्य
तस्मिन् । 'स्त्रियाः पुंवत्--' इति पुंवद्भावः । देशस्याशुभमयत्वं तत्र
तव स्थितेरभावादेव । एतादृशे जनपदे देशे नीवृज्जनपदो
देश--’इत्यमर:। अस्त्विति शेषः । तस्मिन् अशुभमयमूर्तौ जनपदे
अयं विभाग इति योजना । तस्मिन्कस्मिन् । यत्र जनपदे दलित-
मनुजाशेषकलुषा मनुजानां मनुष्याणां अशेषकलुपं समस्तपापं
दलितं नाशितं मनुजाशेषकलुषं यया सा एतादृशी त्वं नासि ।
यत्र त्वं दलितमनुजाशेषकलुषा सती नासीति वा योजना ।
एवं चार्थादेतादृशी त्वं यत्रासि तत्र कस्यापि पातकिनोऽभा-
वात्सर्वेऽपि विमानैः सुरपुरं गच्छन्तीति आद्यकोटिरेव स्थितेति
भावः । अत्र परिकरालंकारः । दलितमनुजाशेषकलुषेति साभि-
प्रायविशेषणस्य सत्त्वात् । तल्लक्षणं तु पूर्वमुक्तम् ॥ ३३ ॥
 
इदानीं समस्तमहापातकिनोपि मरणसमये त्वयि शरीरं
त्यक्तवन्तः सन्त उत्तमलोकं गच्छन्तीत्याह--
 
अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः
पिबन्तो मैरेयं [^१]पुनरपहरन्तश्च कनकम् ।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-
[^२]मुपर्यम्ब क्रीडन्त्यखिलसुरसंभावितपदाः ॥ ३४ ॥
 
अपीति । अत्र ये ते इत्यध्याहारः । पूर्वश्लोकात्पापा इत्य-
नुवर्तते । तथाचैवं योजना--भो अम्ब, ते पापाः पापिन: पुरुषाः
------------------------------
[^१] पुनरपि इति पाठः ।
[^२] मुपर्येव इति पाठः ।