This page has been fully proofread once and needs a second look.

४४
 
गङ्गालहरी ।
 

 
एवेत्यर्थः । पतन्ति । भो मातः, अयं विभागः विषयव्यवस्था

तस्मिन्त्रशुभमयमूर्ती अशुभमयीं अकल्याणप्रचुरा मूर्तिः तनुर्यस्य

तस्मिन् । 'स्त्रियाः पुंवत् -' इति पुंवद्भावः । देशस्याशुभमयत्वं तत्र

तव स्थितेरभावादेव । एतादृशे जनपदे देशे 'नीवृजनपदो

देश -' इत्यमरः । अस्त्विति शेषः । तस्मिन् अशुभमयमूर्तीत् र्तौ जनपदे

अयं विभाग इति योजना । तस्मिन्कस्मिन् । यत्र जनपदे दलित-

मनुजाशेषकलुषा मनुजानां मनुष्याणां अशेषकलुपं समस्तपापं

दलितं नाशितं मनुजाशेषकलुषं यया सा एतादृशी त्वं नासि ।

यत्र त्वं दलितमनुजाशेषकलुषा सती नासीति वा योजना ।

एवं चार्थादेतादृशी त्वं यत्रासि तत्र कस्यापि पातकिनोऽभा-

वात्सर्वेऽपि विमानैः सुरपुरं गच्छन्तीति आद्यकोटिरेव स्थितेति

भावः । अत्र परिकरालंकारः । दलितमनुजाशेषकलुषेति साभि-

प्रायविशेषणस्य सत्त्वात् । तल्लक्षणं तु पूर्वमुक्तम् ॥ ३३ ॥

इदानीं समस्तमहापातकिनोपि मरणसमये त्वयि शरीरं

त्यक्तवन्तः सन्त उत्तमलोकं गच्छन्तीत्याह-

अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः

पिबन्तो मैरेयं पुनरपहरन्तश्च कनकम् ।

विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-

मुपर्यम् क्रीडन्त्यखिलसुरसंभावितपदाः ३४

अपीति । अत्र ये ते इत्यध्याहारः । पूर्वश्लोकात्पाषा इत्य-

नुवर्तते । तथाचैवं योजना-भो अम्ब, ते पापाः पापिन: पुरुषाः
 
1917
 

 
 
१ पुनरपि इति पाठः ।
 

 
२ मुपर्येव इति पाठः ।
 
॥ तेजस्वि
 
लावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute