This page has been fully proofread once and needs a second look.

तनुं पश्यामि, लहरीशब्दं च शृणोमि अतो मम नेत्रकर्णं न
व्यर्थमित्याकूतम् । एवंच शीघ्रं मां पुनीहीति भावः । अत्र
विनोक्तिध्वनिरलंकारः । त्वद्दर्शनं विना नयनयोस्त्वल्लहरि-
कोलाहलश्रवणं विना श्रवणयोश्च रमणीयत्वस्य फलप्रश्नधिक्का-
राभ्यां व्यञ्जनात् ॥ ३२ ॥
 
इदानीं पुण्यवन्तो विमानैः सुरपुरं स्वच्छन्दं यान्ति, पापि-
नस्तु पराधीनाः सन्तो नरकमध्ये पतन्तीति कोटिद्वयं यत्र
देशे त्वं नासि तत्र संभवति । यत्र तु निखिलपापनाशिनी
त्वमसि तत्र द्वितीयकोटेरभावात् आद्यकोटिरेव संभवतीत्याह--
 
विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक्पापा जननि नरकान्तः परवशाः ।
विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे
न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३ ॥
 
विमानैरिति । भो जननि, सुकृतिनः पुण्यवन्तः ।
विमानैः सुरपुरं सुराणां देवानां पूर्नगरी ताम् । यद्वा सुराणां
पुरं नगरं स्वर्गं स्वच्छन्दं यथा स्यात्तथा नतु तद्गुणादिवशेन
अयन्ते गच्छन्ति । पापाः पापस्वरूपा जीवाः पापबाहुल्येन
पापपुरुषयोस्त्रिमुनिव्याकरणमितिवदभेदः । यद्वा पापमस्ति
येषां ते पापा इति मत्वर्थे अर्शआद्यच् । अतएव 'पापोऽहं पाप-
कर्माहं' इत्यादिप्रयोगाः संगच्छन्त इति दिक् । पापमर्हन्तीति
वा । परवशाः सन्तः यमनगरगणाधीनाः सन्त इत्यर्थः
नरकान्तः नरकस्यान्तर्मध्ये द्राक् शीघ्रम् यमनगरगमनसमय