This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 
४३
 

 
तनुं पश्यामि, लहरीशब्दं च शृणोमि अतो मम नेत्रकर्ण न

व्यर्थमित्याकृकूतम् । एवंच शीघ्रं मां पुनीहीति भावः । अत्र

विनोक्तिध्वनिरलंकारः । त्वद्दर्शनं बिविना नयनयोस्त्वल्लहरि-

कोलाहलश्रवणं विना श्रवणयोश्च रमणीयत्वस्य फलप्रश्नधिक्का-

राभ्यां व्यञ्जनात् ॥ ३२ ॥
 

 
इदानीं पुण्यवन्तो विमानैः सुरपुरं स्वच्छन्दं यान्ति, पापि-

नस्तु पराधीनाः सन्तो नरकमध्ये पतन्तीति कोटिद्वयं यत्र

देशे त्वं नासि तत्र संभवति । यत्र तु निखिलपापनाशिनी

त्वमसि तत्र द्वितीयकोटेरभावात् आद्यकोटिरेव संभवतीत्याह-

 
विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
 

पतन्ति द्राक्पापा जननि नरकान्तः परवशाः ।

विभागोऽयं तस्मिन्नशुभमयमूर्ती जनपदे
 

न यत्र त्वं लीलादलितमनुजाशेषकलुषा ३३

 
विमानैरिति । भो जननि, सुकृतिनः पुण्यवन्तः ।

विमानःनैः सुरपुरं सुराणां देवानां पूर्नगरी ताम् । यद्वा सुराणां

पुरं नगरं स्वर्गं स्वच्छन्दं यथा स्यात्तथा नतु तद्गुणादिवशेन

अयन्ते गच्छन्ति । पापाः पापस्वरूपा जीवाः पापबाहुल्येन

पापपुरुषयोस्त्रिमुनिव्याकरणमितिवदभेदः । यद्वा पापमस्ति

येषां ते पापा इति मत्वर्थे अर्शआद्यच् । अतएव 'पापोऽहं पाप-

कर्माहं' इत्यादिप्रयोगाः संगच्छन्त इति दिक् । पापमर्हन्तीति

वा । परवशाः सन्तः यमनगरगणाधीनाः सन्त इत्यर्थः

नरकान्तः नरकस्यान्तर्मध्ये द्राक् शीघ्रम् यमनगरगमनसमय
 
Research Institute