This page has been fully proofread once and needs a second look.

विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः ।
अयं हि न्यक्कारो [^१]जननि मनुजस्य श्रवणयो-
[^२]र्ययोर्मातर्यातस्तव लहरिलीलाकलकलः ॥ ३२॥
 
विशालाभ्यामिति । अत्र यस्य तस्येत्यध्याहारः । भो
जननि, यस्य मनुजस्य मानवस्य । 'मनुजा मानवा नराः' इत्य-
मरः । याभ्यां नेत्राभ्यां परमरमणीया अतिसुन्दरी । अनेन
दर्शने कारणं सूचितम् । एतादृशी तव तनुः शरीरं न आलीढा
न सादरमवलोकिता तस्य मनुजस्य विशालाभ्यां आकर्ण-
विस्तृताभ्यां आभ्यां नयनाभ्यां कृत्वा इह भूलोके किं फलम् ।
न किमपीत्यर्थः । यद्वा इह नालीढेति योजना । यस्य ययोः
श्रवणयोः कर्णयोः अन्तर्मध्ये तव लहरिलीलाकलकलः लहरीणां
लीला क्रीडा तथा कलकलः कोलाहलः । 'कोलाहलः कलकलः'
इत्यमरः । इह न यातः न प्राप्तः तस्य तयोः श्रवणयोः अयं
श्रवणरूपः न्यक्कारः धिक्कारः । अस्त्विति शेषः । खलु निश्चयेन,
यद्वा ययोः श्रवणयोरन्तर्मध्ये तव लहरिलीलाकलकलः न
यातः ताभ्यां श्रवणाभ्यां कृत्वा किं फलम् । न किमपीत्यर्थः ।
परंतु अयं अदर्शनाश्रवणरूपो न्यक्कारो मनुजस्य नत्विन्द्रिया-
णाम् । इन्द्रियव्यापारस्य मनुष्यव्यापाराधीनत्वादिति भावः ।
तदुक्तम् 'करणं हि कर्तृक’मिति एतत्पक्षे यस्य तस्येति नाध्या-
हारः । ताभ्यामित्यस्य चाध्याहारः । अहं तु सर्वदैव तव
-----------------------------------
[^१] मनुजहतकस्य इति पाठः ।
[^२] ययोर्नान्तर्यातः इति पाठः।