This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
विशालाभ्यामाभ्यां
 
किमिह नयनाभ्यां खलु फलं

न याभ्यामालीढा परमरमणीया तव तनुः ।

अयं हि न्यक्कारो जननि मनुजस्य श्रवणयो-

र्ययोर्मातर्यातस्तव लहरिलीलाकलकलः ॥३२॥

-विशालाभ्यामिति । अत्र यस्य तस्येत्यध्याहारः । भो

जननि, यस्य मनुजस्य मानवस्य । 'मनुजा मानवा नराः' इत्य-

मरः । याभ्यां नेत्राभ्यां परमरमणीया अतिसुन्दरी । अनेन

दर्शने कारणं सूचितम् । एतादृशी तव तनुः शरीरं न आलीढा

न सादरमवलोकिता तस्य मनुजस्य विशालाभ्यां आकर्ण-

विस्तृताभ्यां आभ्यां नयनाभ्यां कृत्वा इह भूलोके किं फलम् ।

न किमपीत्यर्थः । यद्वा इह नालीढेति योजना । यस्य ययोः

श्रवणयोः कर्णयोः अन्तर्मध्ये तव लहरिलीलाकलकलः लहरीणां

लीला क्रीडा तथा कलकलः कोलाहलः । 'कोलाहलः कलकलः'

इत्यमरः । इह न यातः न प्राप्तः तस्य तयोः श्रवणयोः अयं

श्रवणरूपः न्यक्कारः धिकारः । अस्त्विति शेषः । खलु निश्चयेन,

यद्वा ययोः श्रवणयोरन्तर्मध्ये तव लहरिलीलाकलकलः न

यातः ताभ्यां श्रवणाभ्यां कृत्वा किं फलम् । न किमपीत्यर्थः ।

परंतु अयं अदर्शनाश्रवणरूपो न्यक्कारो मनुजस्य नत्विन्द्रिया-

णाम् । इन्द्रियव्यापारस्य मनुष्यव्यापाराधीनत्वादिति भावः ।

तदुक्तम् 'करणं हि कर्तृक' मिति एतत्पक्षे यस्य तस्येति नाध्या-

हारः । ताभ्यामित्यस्य चाध्याहारः । अहं तु
 
४२
 
सर्वदैव तव
 
१ मनुजहतकस्य इति पाठः ।
 

 
२ ययोर्नान्तर्यातः इति
 
POONA
 
सर्वदेव तव
 
FOUNDED
1917
 
तजस्विनमस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
पाठः।