This page has been fully proofread once and needs a second look.

इतस्ततो भ्रमणं उच्छिष्टभक्षणाचरणादि तद्वत् व्यासङ्ग उद्योगः
मया कृत इति शेषः । अथानन्तरं नियतं नियमेन मिथ्या-
प्रलपनं असत्यानर्थकमपि भाषणं कृतम् । 'प्रलापोऽनर्थकं वचः'
इत्यमरः । परमपुण्यशीलेन युधिष्ठिरेण सकृन्मिथ्योक्तमिति
तज्जन्यपापवशादन्तरिक्षगस्तद्रथो भूमौ लग्न इति स्पष्टं महा-
भारते । मया तु सत्यत्यागपूर्वकं सर्वदैव तत्कृतमिति मत्पाप-
संख्यैव नेति आकूतम् । कुतर्केषु कुत्सितानां परस्त्रीगमनपर-
गृहदारादिरूपकर्मणां तर्का ऊहाः तेषु । यद्वा कुत्सिताश्च ते
तर्काश्च तेषु, यद्वा साक्षाद्ब्रह्मविद्याया अप्रतिपादकत्वेन पर-
जयेच्छया च कुत्सितास्तर्काः तर्कशास्त्रग्रन्थाः तेषु अभ्यासोऽपि
कृतः । सततपरपैशून्यमननमपि कृतम् । पिशुनस्य सूचकस्य
भावः पैशून्यं द्वैजिह्वयं परेषां पैशून्यं तस्य मननं चिन्तनं
अभ्यासमिति यावत् । सततं निरन्तरं च तत् पैशून्यमननं च
तदपि कृतम् । एवंप्रकारेण मम तु पुनर्गुणगणान् श्रावंश्रावं
श्रुत्वाश्रुत्वा त्वदृते त्वां विना । 'अन्यारात्--'इति सूत्रेण ऋतेयोगे
त्वदिति पञ्चमी । को नाम क्षणमपि वदनं अर्थात् मम मुखं
निरीक्षेत पश्येत् । अपितु न कोऽपीत्यर्थः । तव तु मातृत्वेन
दयाबाहुल्यादीदृशस्य मम मुखनिरीक्षणमावश्यकमेवेति भावः ।
तदुक्तं श्रीमच्छङ्कराचार्यै: 'कुपुत्रो जायेत क्वचिदपि कुमाता
न भवति' इति ॥ ३१ ॥
 
इदानीं यस्य मनुष्यस्य नेत्राभ्यां परमरमणीयं तव शरीरं
न दृष्टम्, यस्य कर्णाभ्यां च तव लहरीकोलाहलो न श्रुतः तस्य
नेत्रे व्यर्थे कर्णौ च व्यर्थावित्याह--