This page has been fully proofread once and needs a second look.

न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो
यदुद्धारादाराद्भवति जगतो विस्मयभरः ।
इतीमामीहां ते मनसि चिरकालं स्थितवती-
मयं संप्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥ ३० ॥
 
नेति । भो अम्ब, एतावन्तं समयमारभ्य एतावत्काल-
पर्यन्तं कोऽपि कश्चन पातकी न मिलितः प्राप्तः । मयेति शेषः ।
आरात् यदुद्धारात् यस्योद्धारस्तस्मात् जगतः विस्मयभरः भव-
तीति ते मनसि चिरकालं बहुकालं स्थितवतीं तिष्ठतीति
स्थितवती तामिमां पूर्वोक्तामीहामिच्छां सफलयितुं असफला
सफला भवति तथा कर्तुम् । भृशादित्वात् 'क्यङ्भानिनोश्च' इति
पुंस्त्वं तुमुन् । अयमहं जगन्नाथः संप्राप्तः । अस्मीति शेषः । नः
अस्मान् प्रणय । पापं निरस्योत्तमां गतिं नयेत्यर्थः । 'उपसर्गा-
दसमासेपि--' इति णत्वम् । अम्बेत्यनेन तव जननि त्वं चेत् अहं
तव पुत्रः एवं च मातुरिच्छा सत्पुत्रेण मया सफलीकर्तव्येति
सत्पुत्रधर्म एवायमिति सूचितम् ॥ ३० ॥
 
इदानीं ममानेकदुष्टगुणान् श्रुत्वा त्वां विना अन्यः कश्चन
मम मुखनिरीक्षणमपि न कुर्यादित्याह--
 
श्ववृत्तिव्यासङ्गों नियतमथ मिथ्याप्रलपनं
कुतर्केष्वभ्यासः सततपरपैशून्यमननम् ।
अपि श्रावंश्रावं मम तु पुनरेवं गुणगणा-
नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ३१

श्ववृत्तीति । भो मातः, श्रवृत्तिव्यासङ्गः शुन; वृत्ति;