This page has been fully proofread once and needs a second look.

४०
 

 
गङ्गालहरी ।
 

 
न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो

यदुद्धारादाराद्भवति जगतो विस्मयभरः ।

इतीमामीहां ते मनसि चिरकालं स्थितवती-

मयं संप्राप्तोऽहं सफलयितुमम्ब प्रणय नः ३०

नेति । भो अम्ब, एतावन्तं समयमारभ्य एतावत्काल-

पर्यन्तं कोऽपि कश्चन पातकी न मिलितः प्राप्तः । मयेति शेषः ।

आरात् यदुद्धारात् यस्योद्धारस्तस्मात् जगतः विस्मयभरः भव-

तीति ते मनसि चिरकालं बहुकालं स्थितवतीं तिष्ठतीति

स्थितवती तामिमां पूर्वोक्तामीहामिच्छां सफलयितुं असफला

सफला भवति तथा कर्तुम् । भृशादित्वात् 'क्यमानिनोश्च' इति

पुंस्त्वं तुमुन् । अयमहं जगन्नाथः संप्राप्तः । अस्मीति शेषः । नः

अस्मान् प्रणय । पापं निरस्योत्तमां गतिं नयेत्यर्थः । 'उपसर्गा-

दसमासेपि -' इति णत्वम् । अम्बेत्यनेन तव जननि त्वं चेत् अहं

तव पुत्रः एवं च मातुरिच्छा सत्पुत्रेण मया सफली कर्तव्येति

सत्पुत्रधर्म एवायमिति सूचितम् ॥ ३० ॥
 

 
इदानीं ममानेकदुष्टगुणान् श्रुत्वा त्वां विना अन्यः कश्चन

मम मुखनिरीक्षणमपि न कुर्यादित्याह-

श्ववृत्तिव्यासकोङ्गों नियतमथ मिथ्याप्रलपनं
 

 
कुतर्केष्वभ्यासः सततपरपैशून्यमननम् ।

अपि श्रावंश्रावं मम तु पुनरेवं गुणगणा-

नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ३१

श्ववृत्तीति । भो मातः, श्रवृत्तिव्यासङ्गः
 
॥ तंजस्वि नावधीतमस्तु ॥
 
INSTITUTE
 
POONA
 
Orient
Instituta
 
शुन; वृत्ति;