This page has been fully proofread once and needs a second look.

परमपातकिनं मां पुनातुं यत्नादिकं करोषीत्याश्चर्यम् । कथं-
भूतं माम् । अमितविचिकित्साविचलितैः अमिता अपरि-
मिता । बह्वीत्यर्थः । सा चासौ विचिकित्सा च इतः परं
पातकानि कर्तव्यानि वा न वेत्याकारः संशयः । 'विचिकित्सा
तु संशयः' इत्यमरः । यद्वा विचिकित्सा जुगुप्साख्यो बीभत्स-
रसस्थायीभावः । 'कित संशये' इति धातोः 'गुप्तिच्किभ्द्य:-
इति सनि 'सन्यङोः' इति द्वित्वे 'गुरोश्च हलः' इत्यप्रत्यये टाप् ।
अमितविचिकित्सायाश्चलितैः पातकान्निवृत्तैः एतादृशैः श्वपा-
कानां श्वानं पचन्ति ते श्वपाका: चाण्डालाः । यद्यपि पचादि-
गणे श्वपचेति अजन्ते निपातितं तथापि न्यङ्क्कादिगणे श्वपाक-
शब्दस्य पाठात्पक्षे कर्मण्यणि कुत्वम् । 'निषादश्वपचावन्ते-
वासिचाण्डालपुल्कसाः' इत्यमरः । तेषां व्रातैः समूहै: नत्वेकेन
द्वाभ्यां वा विमुक्तानां विशेषेण मुक्तानाम् । विशेषश्च मनःपूर्वक-
त्यक्तानां नतु लोकलज्जयेति एतादृशीनामेनःपरिषदां एनसां
पापानां परिषदः सभाः । समूहा इत्यर्थः । तासामेकं अद्वितीयं
सदनं गृहं किल निश्चयेन प्रसिद्धौ वा आश्रर्ये वा । एतादृशमपि
पापिनं मां पुनातुं उद्युक्तासीत्याश्चर्यम् ॥ २९ ॥
 
इदानीं कस्यचिन्महापातकिन: समुद्धरणेन जगत आश्चर्यं
संपादनीयमिति तव महतीच्छा स्थिता सा एतावत्कालपर्यन्तं
तादृशस्य कस्यचित् पातकिनः अभावान्नैव पूर्णा, अहं तु तादृ-
शेच्छां सफलीकर्तुं प्राप्तोमि अतः ममोद्धरणेन स्वेच्छासाफल्यं
कुर्विति प्रार्थयते--