This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
परमपातकिनं मां पुनातुं यत्नादिकं करोषीत्याश्रर्यम् । कथं

भृतं माम् । अमितविचिकित्साविचलितैः अमिता अपरि

मिता । बहीह्वीत्यर्थः । सा चासौ विचिकित्सा च इतः परं

पातकानि कर्तव्यानि वा न वेत्याकारः संशयः । 'विचिकित्सा

तु संशयः' इत्यमरः । यद्वा विचिकित्सा जुगुप्साख्यो बीभत्स-

रसस्थायीभावः । 'कित संशये' इति धातोः 'गुप्तिकिद्चूकिभ्द्य:-

इति सनि 'सन्यङोः' इति द्वित्वे 'गुरोश्च हलः' इत्यप्रत्यये टापू ।

अमितविचिकित्सायाश्चलितैः पातकानिवृत्तैः एतादृशैः श्वपा-

कानां श्वानं पचन्ति ते श्वपाका: चाण्डालाः । यद्यपि पचादि-

गणे श्वपचेति अजन्ते निपातितं तथापि न्यकादिगणे श्वपाक-

शब्दस्य पाठात्पक्षे कर्मण्यणि कुत्वम् । 'निपादश्वपचावन्ते-

वासिचाण्डालपुल्कसाः' इत्यमरः । तेषां वातैः समूहै: नत्वेकेन

द्वाभ्यां वा विमुक्तानां विशेषेण मुक्तानाम् । विशेषश्च मनःपूर्वक

त्यक्तानां नतु लोकलज्जयेति एतादृशीनामेनःपरिषदां एनसां

पापानां परिषदः सभाः । समूहा इत्यर्थः । तासामेकं अद्वितीयं

सदनं गृहं किल निश्चयेन प्रसिद्धौ वा आश्रर्ये वा । एतादृशमपि

पापिनं मां पुनातुं उयुक्तासीत्या श्चर्यम् ॥ २९ ॥
 

 
इदानीं कस्यचिन्महापातकिन: समुद्धरणेन जगत आचर्य
श्चर्यं
संपादनीयमिति तव महतीच्छा स्थिता सा एतावत्कालपर्यन्तं

तादृशस्य कस्यचित् पातकिनः अभावान्नैव पूर्णा, अहं तु तादृ-

शेच्छां सफलीकर्तुं प्राप्तोमि अतः ममोद्धरणेन स्वेच्छासाफल्यं

कुर्विति प्रार्थयते
 
STI
POOR
 
शकाफी
 
॥ तंजस्वि नावधीतमस्तु ॥ /
 
Bhandarkar Oriental
Research Institute
 
-