This page has been fully proofread once and needs a second look.

द्धरणाभावाल्लज्जेतिभावः । पुनस्तं कम् । यस्योद्धारणविधौ
कपालिप्रभृतयोऽपि कपाली प्रभृतिः आदिर्येषां ते विष्ण्वाद-
योऽपि कर्णे हस्तं कुर्वन्ति । स्थापयन्तीत्यर्थः । स्वहस्तेन एत-
स्योद्धृत्यभावात् । एतस्य किमपि न श्रोतव्यमित्याशयेन कर्णे
हस्तन्यास इति भावः । करं कर्णे इत्येकवचनं तु द्वितीय-
कर्णेन श्रोतव्यं यद्धि स्वहस्तेन एतदीयं कार्यं भविष्यति
चेत्करिष्यामः नो चेन्नेत्येतदर्थबोधनाय ॥ २८ ॥
 
इदानीमपरिमितसंशयेन पापाचरणे निवृत्तैश्चाण्डालानां स-
मूहैरपि त्यक्तानां पापानामाकरैः पुनातुं यत्नं कुर्वन्त्यास्तव स्तुतिं
कर्तुं नरपशुरहं कथं श शक्रुत्यामित्यहङ्कारपरिहरणव्याजेनाह--
 
श्वपाकानां व्रातैरमितविचिकित्साविचलितै-
र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।
अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं
तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९॥
 
श्वपाकानामिति । भो जननि, मां उद्धर्तुं परिकरं कटि-
बन्धं विवेकमारम्भं यत्नं वा । 'प्रगाढगात्रैकबन्धे विवेका-
रम्भयो’रिति विश्वः । 'यत्नरम्भौ परिकरौ' इति त्रिकाण्ड-
शेषः । घटयन्त्याः कुर्वन्त्याः तव श्लाघां स्तुतिं कर्तुं नरः पशु-
रिवेति व्याघ्रादित्वात्समासः । सर्वानविशेषेण पश्यतीति
पशुः । हिताहितज्ञानशून्यः मूर्ख इति यावत् । एतादृशोऽहं
कथमिव केनापि प्रकारेण समर्थ: । अपितु न कथमपीेत्यर्थः ।
मन्मतिमान्द्यात्तव गुणानामपारत्वाच्चेति भावः । अहो इत्याश्चर्ये।